SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ सोपानम् अपोहशब्दार्थनानिरसनम् । : ८३: द्विवक्षायामपि कचिद्व्यभिचारात् सर्वत्रानाश्वासेन न तेषां विवक्षाविशेषसूचकत्वं स्यात् , न च सुविवेचितकारणस्य कार्याव्यभिचारान्न शब्दविशेषाणां विवक्षाविशेषसूचकत्वं विरुद्ध. मिति वाच्यम् , येन प्रतिबन्धेन शब्दविशेषस्य विवक्षाविशेषसूचकत्वं तत एव तेषामर्थविशेषप्रतिपादकत्वौचित्यात् । स्वाभिधित्सितार्थप्रतिपादनशक्तिवैकल्यादन्यथापि प्रायशोऽभिधानवृत्तिदर्शनाद्विचित्राभिसन्धित्वात् पुरुषाणां विसंवादशङ्कया वक्कभिप्रायेऽपि तेषा- 5 मप्रामाण्यमिति चेत्तर्हि सर्वव्यवहारोच्छेदप्रसङ्गः, तथाहि यज्जातीयात् कचित्कदाचिद्यथाभूतं दृष्टं तादृशादेव सर्वदा सर्वत्र तथाभूतमेव भवतीति निरभिप्रायेष्वपि नियमो नोपलभ्यते, इन्धनादिसामग्रीतोऽनलप्रादुर्भावदर्शनेऽपि एकदा मण्यादिप्रभवत्वेनापि तस्य समीक्षणात् कथं कार्यहेतोरप्यव्यभिचारित्वनिबन्धनं प्रामाण्यं परेणाभ्युपगतं युक्तं स्यात् , बहुधा वृक्षस्य चूतस्योपलम्भेऽपि कचित् कदाचिल्लतात्मतयापि तस्य दर्शनात् शिंशपा वृक्ष- 10 स्वभावमेव बिभर्तीति कथं प्रेक्षापूर्वकारिणां निःशवं चेतो भवेत् , यतो लता च स्यात् शिंशपा च, नैवात्र कश्चिद्विरोध इति वृक्षोऽयं शिशपात्वादिति स्वभावहेतोरप्यव्यभिचारनिबन्धनप्रामाण्याभ्युपगमः परस्य विशीयेत । यदि स्वभावसदसद्भावे भवतो भावस्य निःस्वभावतापत्त्या तादात्म्यादव्यभिचारलक्षणं प्रामाण्यं तथा कारणाभावे भवत: कार्यस्य कार्यत्वाभावापत्या तदुत्पत्तिस्वरूपाव्यभिचारनिबन्धनं प्रामाण्यमस्तीत्यनुमानं प्रमाणमित्यु- 15 च्यते तर्हि स्वसन्ताने याहग्भूतं विज्ञानमुत्पन्नं तादृग्भूतस्यैव श्रोतृसन्ताने विज्ञानस्योरिपपादयिषया वचनमुच्चारयन् परार्थानुमानं वाऽभ्युपगच्छन् शब्दाना बहिरर्थे सम्बन्धनिमित्तं प्रामाण्यं कथं प्रतिक्षिपेत् । अनुमानस्यापि प्रामाण्यं यद्यव्यभिचारप्रतिपत्त्यभावान्नाभ्युपगम्यते तदा तत्त्वव्यवस्था न स्यादेव, प्रत्यक्षेऽपि स्वार्थाव्यभिचारित्वस्य निश्चयासम्भवेन ततस्तद्रूयवस्थाऽसम्भवात् , न वा स्वसंवेदनमात्रात्तत्सम्भवः ग्राह्यग्राहकाकारशून्यस्य तस्या- 20 पि यथातत्वमभ्युपगतस्याननुभूयमानत्वेन स्वत एवाव्यवस्थितत्वात्तत्त्वव्यवस्थापकत्वासम्भवात् । न च सर्वभावानां प्रतिभासोपमतया न किञ्चितत्त्वमस्तीति वक्तव्यम्, शून्यताया निराकरिष्यमाणत्वात् । तस्मात् प्रत्यक्षादिकं प्रमाणमभ्युपगम्यते यदि तदा शब्दोऽपि बहिरर्थे प्रमाणतयाऽभ्युपगन्तव्यः, तन्निबन्धनस्य सामान्यविशेषलक्षणबाह्यार्थप्रतिबन्धस्य तत्रापि सत्वात् , तत्रैव च शब्दाच्चक्षुरादेरिव नियमेन प्रतिपत्तिप्रवृत्तिप्राप्तिलक्षणव्यवहार- 25 दर्शनात् , गुणदोषयोश्चोभयत्र समानत्वात् । यथा चातव्यावृत्तिवाहिधूमव्यक्तीनामानंत्येऽपि परस्परं प्रतिबन्धो निश्चीयते तथा व्यक्तीनामानन्त्येऽपि तत्र सङ्केतः संभवत्येव, प्रतिबन्धो हि वह्निधूमव्यक्तीनां परेण प्रत्यक्षेणैवाभ्युपगन्तव्यो नानुमानेन, अनवस्थाऽन्योन्याश्रयदो. षानुषङ्गात् । तदपि प्रत्यक्षं विकल्परूपमेव, तस्यैव प्रामाण्यसम्भवात् , सत्यपि हि निर्विक "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy