SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ सम्मतितस्वसोपाने [ एकादशम् किमर्थं दर्शने प्रवृत्तिः स्यात् , स्फुटं प्रतिपन्नेऽपि पुनः प्रवृत्ती प्रवृत्तेरविरामप्रसङ्गात् । नाप्याकारान्तरेणार्थः शब्दप्रतिपाद्यः, तदाकारस्य सम्बन्धव्युत्पत्तिकाले कालान्तरे वा अक्षागोचरत्वादतने नाध्यक्षतः सम्बन्धवेदनम् । नाप्यनुमानेन, प्रत्यक्षाभावेऽनुमानानवता सत् । तस्मात्सम्बन्धवेदनासम्भवेन न वस्तु शब्दार्थः किन्तु शब्देभ्यः बहिरासंस्पर्शिन्यः 5 कल्पनाः प्रसूयन्ते ताभ्यश्च शब्दा इति कार्यकारणभावमात्रं तत्त्वं न वाच्यवाचकभावः, शब्दाद्धि विज्ञानमुत्पद्यते न तु तत्तेन प्रतीयते, अत एव च ज्ञानतदाकारावपि न शब्दवाच्यौ। कथं तर्हि अन्यापोहः शब्दवाच्यः, लोकाभिमानमात्रेण तथाऽभिधानात्, लौकिकानां हि शब्दश्रवणात् प्रतीतिः प्रवृत्तिः प्राप्तिश्च बहिरणे दृश्यते | न च यदि लोकाभिप्राय इष्यते तर्हि बहिरर्थः शब्दार्थोऽस्तु, नान्यापोहः तदभावादिति वाच्यम् , तस्यैवान्यापोहत्वात् , न च 10 तर्हि स्वलक्षणं शब्दार्थ इति वाच्यम् , विजातीयव्यावृत्तरूपेण तस्य शब्दभूमित्वस्ये टत्वात् , न तु सजातीयव्यावृत्तरूपस्य, तस्य शाब्देऽप्रतिभासात् । न च विजातीयल्यावृत्तरूपाभिन्नत्वात्सजातीयव्यावृत्तरूपस्य शब्दैर्विकल्पैश्च विजातीयव्यावृत्तरूपस्याधिगतौ तदप्यधिगतमेवेति वाच्यम् , विकल्पानामविद्यास्वभावतया स्वलक्षणासंस्पर्शित्वात् , तथा च शब्दलिङ्गाभ्यां बहिरासंस्पर्शिप्रत्ययः क्रियते तत्संस्पर्शाभावेऽपि पारम्प15 येण वस्तुप्रतिबन्धादविसंवादः, पदार्थस्यास्तित्वाद्धि प्राप्तिर्न दर्शनात् , केशोण्डुकादेर्दर्श नेऽपि प्रायभावात् । न च प्रतिभासमन्तरेण कथं प्रवृत्तिरिति वाच्यम्, प्रतिमासेऽप्यनर्थित्वे प्रवृत्त्यभावात् , अर्थित्वे च सति दर्शनविरहेऽपि भ्रान्त्या प्रवृत्तिसद्भावात् किन्तु तत्र वस्तुप्रतिबन्धाभावाद्विसंवादः यत्र तु प्रतिबन्धसद्भावः तत्राविसंवादः, यदा तु विकल्पानां स्वरूपनिष्ठत्वान्नान्यत्र प्रतिबन्धः तदा स्वसंवेदनमात्रं परमार्थसत्तत्वमिति, इद20 मपि मतं निरस्तम् , सामान्यविशेषात्मकवस्तुनः शब्दलिङ्गविषयत्वात् । सामान्यविशे षात्मकं हि वस्तु सर्वस्यां प्रतिपत्तौ प्रतिभाति केवलं प्रधानोपसर्जनभावेन जातिव्यक्त्योः सामग्रीभेदात् प्रत्यक्षादिबुद्धौ प्रतिभासनात्तत्र वैशद्यावैशद्यावभासभेदः । शब्दार्थयोश्च तादात्म्यतदुत्पत्तिलक्षणसम्बन्धमन्तरेणापि सम्बन्धः परेणाभ्युपगन्तव्यः, अन्यथा यत्स. त्तत्सर्वं क्षणिकं, अक्षणिके क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् संश्च शब्द इति, तथा 25 यत्किञ्चित्सत् तत्सर्वमक्षणिकम् क्षणिकेऽर्थक्रियानुपलब्धेः संश्च शब्द इति साधनवाक्ययोः स्वपराभिप्रेतार्थसूचकयोः स्वलक्षणासंस्पर्शित्वेन भेदाभावात् साधनतदाभासव्यवस्थानुपप. त्तिप्रसङ्गः । न चान्यतरसाधनवाक्यस्य परम्परया स्वलक्षणप्रतिबन्धादपरस्माद्विशिष्टतेति वाच्यम् , तथा सति वाच्यवाचकयोः कार्यकारणभावातिरिक्तस्य सामर्थ्यप्राप्तस्यानिष्टस्यापि सम्बन्धान्तरस्याभ्युपगमप्रसङ्गात् । न च शब्दस्य कचिदर्थे व्यभिचारदर्शनात्सर्वत्रानाश्वासाद प्रामाण्य कल्पना युक्ता, प्रत्यक्षस्यापि तथाभावप्रसङ्गात् । किञ्चान्यविवक्षायामन्यशब्ददर्शना "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy