SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] अपशब्दार्थता निरसनम् । सनात्, न ह्यात्मानमनारूढे विज्ञानं प्रवृत्तिं विधातुमलम्, अतिप्रसङ्गात् । नाप्याकृतिविशिष्टा व्यक्तिस्तयोरर्थः, तस्याः प्रतिभासाभावात्, न हि शब्दलिङ्गप्रभवे विज्ञाने व्यक्तरूपतया तस्याः प्रतिभासः, तदभावेऽपि तस्योदयात् न च व्यक्तेरेवाकारद्वयं व्यक्तरूपमव्यक्तरूपश्वेति, व्यक्तरूपमिन्द्रियज्ञानभूमिरव्यक्तरूपं शब्दार्थ इति वाच्यम्, रूपद्रयग्राहकाभावात् । न हि शब्देन ज्ञानेन तद्गृह्यते तत्र स्पष्टरूपानवभासनात्, नापीन्द्रियज्ञानेन, तत्र 5 स्पष्टाकारस्यैव प्रतिभासनात् श्रुतं पश्यामीति व्यवसायादृश्यश्रुतयोरेकतेति चेन, दृश्यरूपतया श्रुतस्यावगमे दृश्यरूपस्यैवावभासात् श्रुतरूपतया दृश्यस्यावगमे तु व्यक्तेः श्रुतरूपस्यैवावगतेः, तस्मात् प्रतिभासरहितमभिमानमात्रमिन्द्रियशब्दार्थयोरध्यवसानम्, न तत्त्वम्, अन्यथा दर्शन वच्छान्दमपि स्फुटप्रतिभासं स्यात् । न चेन्द्रियसम्बन्धस्य तत्राभावाद्व्यक्तिप्रतिभासेऽपि प्रतिपत्तिविशेषोऽस्तीति वाच्यम्, तथापि प्रतिपत्तिभेदासम्भवात् यत इन्द्रि- 10 यैरपि स्वरूपमुद्रासनीयम्, शब्दलिङ्गाभ्यामपि तदेव दर्श्यत इत्यन्यूनानतिरिक्तस्य स्वरूपस्याधिगमः स्यात् । व्यक्तिरूपं नीलादिकमेव केवलमुभयत्र प्रतीयते व्यक्ताव्यक्ताकारौ तु ज्ञानस्यात्मानाविति चेत्, तर्हि नीलादिस्वरूपतया तयोः प्रतिभासनं न भवेत्, प्रतिभासते व तथा तस्मान्नीलाकारावेतौ न हि व्यक्तरूपतामव्यक्तरूपतां च मुक्त्वा नीलादिकमपरमाभाति तदनवभासनात्तस्याभाव एव तस्मान्नाक्षशब्दयोरेको विषयः । किच व्यक्तिर्यदि 15 शब्दलिङ्गयोरर्थस्तदा सम्बन्धवेदनं विनैव ताभ्यामर्थप्रतीतिः स्यात्, शब्दलिङ्गयोश्चार्थे सम्बन्धवेदनासम्भवात्, तथाहि व्यक्तौ सम्बन्धवेदनं प्रत्यक्षेण वा अनुमानेन वा भवेत्, तत्र पुरस्थित रूपमात्रप्रतिभासकत्वात् प्रत्यक्षस्य तेन शब्दार्थयोर्वाच्यवाचकभावसम्बन्धस्य ग्रहणं न संभवति, अथेन्द्रियज्ञानारूढे रूपे इदमेतच्छब्दवाच्यम्, इदमस्य वाऽभिधानमिति सम्बन्धव्युत्पत्तिर्दृश्यत इति चेन्न विकल्पानुपपत्तेः अस्येदं वाचकमित्यस्य हि 20 कोऽर्थः, किं प्रतिपादकं तथा सति किमधुनैव, उतान्यदा, तत्र नाधुनैव, अधुनेन्द्रियव्यापारेणैव स्फुटं नीलादेरवभासनात्, शब्दव्यापारस्य वैयर्थ्यात्, तत्र तस्य सामर्थ्यानधिगतेः । न वाऽन्यदा तदा हि शब्दः किमर्थान् विशदाकारेणावभासयति, आकारान्तरेण वा नाद्यः, तदानीमपि चक्षुरादिभिरेव विशदाकारेण तस्यावभास्यमानत्वात् किं शब्देन तत्र तस्य सामर्थ्यादर्शनात्, दर्शनाकांक्षासद्भावाश्च । यदि हि शब्देनैवार्थः सर्वथा प्रतिपन्नस्तर्हि 25 : ८१ : १ यया जातिर्जातिलिङ्गानि चाख्यायन्ते तामाकृतिं विद्यात्, तत्र लाक्षादाकृत्या शिरःपाण्यादिसंनिवेशदर्शनाद्गोत्वा दिजातियैज्यते, यदा विषाणादिभिरवयवैः पृथक् पृथक् स्वावयवसन्निवेशाभिव्यक्तैर्गोत्वादिर्व्यज्यते, तदा जातिलिङ्गेन तेन जातेस्तहिंगानाञ्च प्रख्यापिका भवत्याकृतिः, स्वलक्षणवचाकृतिविशिष्टव्यक्तेः शब्दार्थतानिराकरणं विज्ञेयम् ॥ ११ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy