SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ सम्मतितस्वसोपाने [ एकादशम् वहारः । विशेषणविशेष्यभावोऽपि बाह्यसमाश्रित एव, न च विशेषणविशेष्ययोरुपकार्योपकारकभूतत्वेनासमानकालयोस्तद्भावानुपपत्तेस्तथाभूतविकल्पाश्रय एवायं व्यवहार इति वक्तव्यम् , उपकार्योपकारकयोः पितापुत्रयोरिव समकालत्वाविरोधात , एकान्तानित्यपक्षस्य च निषिद्धत्वात् । लिङ्गसंख्यादियोगोऽपि अनन्तधर्मात्मकबाह्यवस्तुसमाश्रित एव । न चैकस्य 5 तटस्तटी तटमिति स्त्रीपुंनपुंसकाख्यं स्वभावत्रयं विरुद्धमिति वाच्यम् , विरुद्धधर्माध्यासस्य भेदाप्रतिपादकत्वात् , अनन्तधर्माध्यासितस्य च वस्तुनः प्रतिपादितत्वात् । न चैकस्माच्छदादेर्मेचकादिरत्नवच्छबलाभासताप्रसङ्गः प्रतिनियतोपाधिविशिष्टवस्तुप्रतिभासस्य प्रतिनियतक्षयोपशमनिमित्तस्य साधितत्वात् । एवं दारादिष्वर्थेषु बहुत्वसंख्या वनसेनादिषु चैकत्व संख्या न विरुद्धा, यथाविवक्षमनन्तधर्माध्यासिते वस्तुनि कस्यचिद्धर्मस्य केनचिच्छब्देन 10 प्रतिपादनाविरोधादिति ॥ प्रज्ञाकरस्त्वेवमाह, तथाहि यद्यत्र प्रतिभाति तत्तस्य विषयः, यथाऽक्षजे संवेदने परिस्फुटं प्रतिभासमानवपुरर्थात्मा नीलादिस्तद्विषयः, शब्दलिङ्गजे संवेदने दर्शनप्रभवे बहिरर्थस्वतत्त्व. प्रतिभासरहितं स्वरूपमेव चकास्ति ततस्तदेव तस्य विषयः, परिहतबहिरर्थसम्बन्धश्च संविद्व पुरेवान्यापोहः, वस्तुनि शब्दलिङ्गवृत्तरयोगात् । न हि जातिस्तयोर्विषयः, जातेरेवासम्भ15 वात् , दर्शने व्यक्तेरेव स्फुटतयाऽनुभवनात्, शाबलेयादिविवेकेन जातेरप्रतिभासनाद्गौरिति प्रतीतावपि साधारणरूपस्याननुभवाच्च । न च शाबलेयादिरूपमेव साधारणम् , तस्य प्रतिव्यक्ति भिन्नरूपोपलम्भात् । न च सर्ववस्तुषु व्यावृत्त्यनुगमात्मिका व्यात्मिका बुद्धिरिति वक्तव्यम् , तस्या इन्द्रियबुद्धिरूपत्वं न सम्भवति, असाधारणरूपत्वात्तस्याः, नापि कल्प ना रूपा, तत्रापि जातेरनवभासनात् , पुरःपरिस्फुटमुद्भासमानं व्यक्तिस्वरूपं व्यवस्यन्ती 20 हृदि चाभिजल्पाकारं हि कल्पना प्रतीयते न तु तद्भिन्नो वर्णाकृत्यक्षराकारशून्यः प्रतिभासो लक्ष्यते, वर्णादिस्वरूपरहितश्च जातिस्वरूपमभ्युपगम्यते, तस्मान्न कल्पनावसेया जातिः असती च, कचिदपि ज्ञाने स्फुटं व्यक्तिप्रतिभासवेलायां स्वरूपतोऽप्रतिभासनात् । न च शब्दलिङ्गजे ज्ञाने स्वरूपेण जातिः प्रतिभाति, तत्र सम्बन्धप्रतिपत्तेः न तु स्वलक्षणम् , तस्यासा धारणरूपतया प्रतिभासेन सम्बन्धग्रहणासम्भवादिति वाच्यम् , व्यक्त्याकारस्यैव तत्रापि 25 स्फुटं प्रतिभासनात् , न तु वर्णाकाररहितोऽनुगतैकस्वरूपः प्रयोजनसामर्थ्यव्यतीतः कश्चि दाकारः केनचिदपि लक्ष्यते, शब्दलिङ्गान्वयं हि दर्शनं अर्थक्रियासमर्थतयाऽस्फुटदहनाकारमाददानं जनं प्रवर्तयति । यदि जात्यादिरेव लिङ्गादिविषयः स्यात्तर्हि जातेरर्थक्रियासामर्थ्यविरहादधिगमेऽपि शब्दलिङ्गाभ्यां न बहिरर्थे प्रवृत्तिर्जनस्येति विफल: शब्दादिप्रयोगः स्यात् । न च स्वलक्षणं तत्र समर्थ तदर्था च प्रवृत्तिर्जनानामिति वक्तव्यं, तत्र स्वलक्षणस्याप्रतिभा "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy