SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] अपोहवाध्यतानिरसनम् । निमित्तम्, ह्रस्ववर्णं द्वयोश्चारणे तद्भावेऽप्यभावात् नाप्युभयं निमित्तम्, संयुक्ताङ्गुल्यो: पूर्वापरक्षणयोरपि उभयसद्भावेऽप्यभावात् तस्मादान्तरेतर भ्रान्तिकारणाभावाद्यथानुभवं कुतो न विकल्पोत्पत्तिः, तस्मादुपाधितद्वतोरभेदेऽपि नानाफलत्वं शब्दविकल्पयोर विरुद्धम् । भेदपक्षेऽपि तयोरेकार्थवृत्तिर्घटत एव तद्वारेण शब्दविकल्पयोरेकस्मिन् धर्मिणि वृत्तेः सामानाधिकरण्यादिव्यवहारसिद्धिः । उपकार्योपकारकप्रतीत्योरन्योन्याविनाभावित्वाभावात् 5 नैकोपाधिद्वारेण सर्वात्मनोपाधिमतः प्रतिपत्तिः, अन्यथा कथञ्चित्सर्वस्यापि परस्परं उपकार्योपकारकभावादेकपदार्थप्रतिपत्तौ तदाधारादिभावेनोपकारकभूतस्य भूतलादेस्तत्कार्यभूतसन्तानान्तरवर्त्तिज्ञानस्य वा ग्रहणं ततोऽपि तदुपकारिणस्तस्मादद्ध्यपरस्य तदुपकारिण इति पारम्पर्येण सकलपदार्थाक्षेपात्सर्वः सर्वदर्शी स्यात् । ननु भवत्ययं दोषः सम्बन्धवादिनाम्, सम्बन्धस्य सम्बन्धिभ्यो व्यतिरेकेऽनवस्थाप्रसङ्गेनैकधर्मद्वारेणापि निखि- 10 लधर्मसम्बन्धात्मकस्यैव धर्मिणोऽवगमात् सम्बन्धिनो धर्मकलापस्याशेषस्य ग्रहणप्रसक्तिः, सम्बन्धिग्रहणमन्तरेण सम्बन्धप्रतिपत्तेरभावात् अङ्गुलिद्वयप्रतिपत्तौ तत्संयोगप्रतिपत्तिवत् । सम्बन्धिष्वेकसम्बन्धानभ्युपगमवादिनामस्माकं नायं दोषः, न हि प्राग्भावोत्तरभावावन्तरेणापरः कार्यकारणभावादिरेकः सम्बन्धोऽस्माभिरभ्युपगम्यते येन समस्ताब - गमात् सर्वः सर्वदर्शी स्यादिति मैवम् सम्बन्धवादिनः समस्तधर्मसम्बन्धानां धर्म्य - 15 भिन्नत्वेऽपि तदेकधर्मसम्बन्धात्मकस्यैव धर्मिणो ज्ञानादशेषधर्मग्रहणप्रसङ्गाभावात् । सम्ब न्धाभाववादिनोऽपि यद्युपकारकप्रतिपत्तावपि एकसम्बन्धाभावान्नोपकार्यस्यावगतिस्तदा कथं रूपादे रसतोऽनुमानेनावगतिः, उपकार्यविशिष्टस्योपकारकस्याप्रतिपत्तेः, प्रतिपत्तौ च कथं भवन्मतेन न सर्वः सर्वविद्भवेत् । न च धर्मधर्मिप्रतीत्योरितरेतराश्रयत्वात्तत्प्रतीत्यभावेन न धर्मधर्मिभाव इति वाच्यम्, युगपत्तयोरध्यक्षे प्रतिभासनात्, न वा क्रमप्रतिभासेऽपि 20 तत्प्रतीत्योरितरेतराश्रयत्वम्, दूरादध्यक्षेण प्रतीतस्य वृक्षत्वविशिष्टस्य प्रत्यासन्ने आम्रादिविशेषणविशिष्टस्य तस्यैवावसायात् शाब्दप्रतिभासेऽपि गोशब्दाद्गोत्वमात्रोपाधेरवभातस्य शुक्लशब्दात्तदुपाधिविशिष्टस्य तस्यैवावभासनात् । न च गुणग्रहणमन्तरेण गुणिनोऽपि गवादेरग्रहः तदग्रहे च गुणाग्रह इति वाच्यम्, गोशब्दाद्विशेषणविशेष्ययोर्युगपदेव प्रतिपत्तेः । अथ सविकल्पप्रत्यक्षवादिनां स्यादयं दोषः, धर्मविशिष्टधर्मिणो निश्चयाद्धर्म- 25 धर्मिणोश्च परस्परसव्यपेक्षत्वात्, निर्विकल्पक प्रत्यक्षवादिनान्तु सर्वोपाधिनिरपेक्षनिरंशस्वलक्षणसामर्थ्यभाविना तद्रूपमेवानुकुर्वता निर्विकल्पकाध्यक्षेण अन्यनिरपेक्षस्वलक्षणग्रहणाभ्युपगमान्नायं दोष इति न सम्यगेतत्, सकलोपाधिशून्यस्वलक्षणप्राहिणो निर्विकल्पकस्याभावात., तदेवं भिन्ननिमित्तयोरेकविपयत्वाविरोधात् कथं न बहिरर्थे सामानाधिकरण्यव्य + "Aho Shrutgyanam" : 04
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy