________________
: ७८ : सम्मतितत्वसोपाने
[ एकादशम् विनां चित्तचैत्तानां नानात्वेऽप्येकयोगक्षेमत्वात्तेन स्वभावभेदस्यानिराकरणात, चित्तमर्थ. मात्रग्राहि, चैत्ताः विशेषावस्थाग्राहिणः सुखादयः । नीलादिप्रतिभासानां सर्वथैकत्वमपि प्रत्यक्षविरुद्धम् , प्रतिभासभेदाढ़ेदसिद्धेः, भेदप्रतिभास स्याबाधित्वेनाभ्रान्तत्वाञ्च | अथ विकरूपस्यायं विभ्रमः, बहिरर्थे सामानाधिकरण्यादेरयोगात् , नानाफलयोनीलोत्पलादिशब्दविक5 ल्पयोरेकस्मिन्नर्थे वृत्तिविरोधात् , धर्मधर्मिणोरेकान्तभेदाभेदाभ्यां गत्यन्तराभावात् , धर्मध. मिणोहि अभेदाभ्युपगमे शब्देनैकेन विकल्पेन च स्वलक्षणात्य विषयीकरणे निखिलस्वभावाक्षेपादपरस्य शब्दादेः स्खलक्षणैकवृत्तेस्तद्भिनफलत्वाभावात्तदभेदे सकृत् ग्रहणस्यावश्यंभावित्वम् , अभेदस्य तल्लक्षणवादन्यथा गृहीतागृहीतयोर्भेदप्रसक्तेः । धर्मधर्मिणोर्भेदाभ्युपगमपक्षेऽ
पि घटपटादिशब्दवत् एकत्रावृत्तेः, उपाधिद्वारेणैकत्रोपाधिमति शब्दविकल्पयोस्तदा प्रवृत्ति10 भवेत् , यदि तयोरुपकार्योपकारकभावः स्यात् , अन्यथा पारतंत्र्यासिद्धेः । तयोश्चोपाध्यु
पाधिमद्भावाभावान्न तद्वारेणापि तयोस्तद्वति वृत्तियुक्ता । अथ तयोरुपकार्योपकारकभावस्तदोपाध्युपकारिका शक्तिरुपाधिमतो यद्यभिन्ना तदैकोपाधिद्वारेणाप्युपाधिमतः प्रतिपत्तौ सर्वोपाध्युपकारकस्वरूपस्यैव तस्य निश्चयादुपकार्यस्योपाधिकलापस्याप्यशेषस्य निश्चयप्रसक्तिः, उप.
कारकनिर्णीतरुपकार्यनिश्चयनान्तरीयकत्वात् । उपाधिमतो भेदे तच्छक्तेः सम्बन्धाभावः, 15 ततस्तासामनुपकारात् , उपकारे वा तदुपकारशक्तीनामपि उपाधिमतो भेदाभेदकल्पनाया.
मनवस्था सर्वात्मना ग्रहणश्च प्रसज्यत इति, मैत्रम् , अभेदस्य सकृद्हणलक्षणत्वाभावात् , घटाद्याकारपरिणतानां परमाणूनां सकृद्रहणेऽप्यभेदस्याभावेनातिव्याप्तेः, सत्त्वानित्यत्वयोर. भेदेऽपि सकृद्रहणाभावेनाव्याप्तेश्व, तयोस्सकृद्हणे च सत्वप्रतिपत्तौ क्षणक्षयस्यापि प्रतिपत्ते
रनुमानवैयर्थ्यप्रसङ्गात् । न चानादिसंसाराभ्यस्ताक्षणिकादिवासनाजनितमन्दबुद्धेः पूर्वोत्तर20 क्षणयोर्विवेकनिश्चयाभावात्स्वलक्षणस्य सर्वात्मनाऽनुभवेनाधिगमेऽपि क्षणिकतायां निश्चयानुत्पत्तेरनुमानस्य साफल्यमिति वाच्यम् , घटकपालक्षणयोरप्यविवेकनिश्चयप्रसक्तेः । सदृशापरापरोत्पत्तर्विप्रलम्भनिमित्तस्याभावानात्र सत्प्रसङ्ग इति चेन्न, द्वस्ववर्णद्वयोचारणे तत्प्रसङ्गात् , न च तयोविप्रलम्भनिमित्तस्यानन्तर्यस्य वर्णद्वयान्तराले सत्त्वलक्षणसदृशधर्मस्या
भावान्न तत्प्रसङ्ग इति वाच्यं लघुवृत्तेर्विभ्रमनिमित्तस्य सद्भावात् , एवञ्च संयुक्ताङ्गुल्यो25 रप्यविवेकनिश्चयः स्यात् , देशनैरन्तर्यसारश्ययोर्भावात् । किञ्चान्यापोहवादिनां भ्रान्ति
निमित्तं सादृश्यं वस्तुभूतं नास्त्येव, सामान्यवादप्रसक्तः, न चैकविज्ञानजनकक्षणानां सादृश्यरूपता वाच्या, तस्माद् विवेकानिश्चये रूपालोकमनस्कारादीनामपि एकविज्ञानजनकत्वेन सादृश्यादेकत्वनिश्चयस्तेषामपि भवेत् । एवं देशनैरन्तर्यमपि न भ्रान्तिनिमित्तम् , तत्सद्भावेऽपि संयुक्ताकुल्योन्त्यभावात् । कालनैरन्तयं लघुवृत्तिरेव, तदपि न भ्रान्ति
"Aho Shrutgyanam"