SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] अपोहवाध्यता निरसनम् । : ७७ : नासौ कार्यकारणभावादन्यः, बाह्यरूपतयाऽध्यवसितस्य बुद्ध्याकारस्य शब्दजन्यत्वात् | तथा च शब्दस्तस्य प्रतिबिम्बात्मनो जनकत्वाद्वाचक उच्यते प्रतिबिम्बच शब्दजन्यत्वाद्वा न्ध्यम्, न तु निषेधमात्रम् । एवञ्च प्रतिबिम्बलक्षणोऽपोहः साक्षाच्छब्दैरुपजन्यत्वान्मुख्यः शब्दार्थो व्यवस्थितः शेषयोरन्यापोहयोगणं शब्दार्थत्वमविरुद्धमेव, सामर्थ्यात्तयोरपि प्रतीतेः । सामर्थ्यञ्च गवादिप्रतिबिम्बात्मनोऽपरप्रतिबिम्बात्मभिन्नत्वात्तदसंयुक्ततया प्रतीयमा- 5 नत्वम्, तथा तत्प्रतीतौ प्रसज्यलक्षणापोह प्रतीतेरप्यवश्यसम्भवादतः सोऽपि गौणशब्दार्थः । स्वलक्षणमपि गौणशब्दार्थः प्रथमं हि यथावस्थितवस्त्वनुभवः, ततो विवक्षा, ततस्तात्वादिपरिस्पन्दः ततशब्द इत्येवं परम्परया यदा शब्दस्य बाह्यार्थेष्वभिसम्बन्धः स्यात्तदा विजातीयव्यावृत्तस्यापि वस्तुनोऽर्थापत्तितोऽधिगम इत्यन्यव्यावृत्तवरत्वात्माऽपोहशब्दार्थ इत्युपचत इति, अत्र वदामः, विजातीयव्यावृत्तपदार्थानाश्रित्यानुभवादिमुखेन यच्छाब्दं विज्ञानं 10 तथाभूतपदार्थाध्यवसाय्युत्पद्यत इत्यत्राविसंवाद एव, किन्तु तत्तथाभूतवास्तविकार्थप्राह्यभ्युपगन्तव्यम्, अध्यवसायस्य ग्रहणरूपत्वात्, विजातीयव्यावृत्तेस्तु समानपरिणतिरूपतया वस्तुधर्मत्वात्, तत्रान्यापोहशब्दवाच्यता न क्षतिकारिणी, सङ्केतविशेषसव्यपेक्षस्य तच्छब्दस्य तत्रापि प्रवृत्त्यविरोधात् । विकल्पप्रतिबिम्बकमात्रमपि न शब्दार्थः, शब्दात्तस्य वाच्यतयाऽप्रतिपत्तेः । किन्तु विशिष्टसङ्केतसव्यपेक्षा च्छन्दाद्वाह्यार्थप्रतिपत्तेः तत्पूर्वकप्रवृ- 15 त्यादिव्यवहारस्यापि तत्रैव भावात् स एव बाह्यः शब्दार्थो युक्तः । एवं विजातीयव्यावृत्तस्वलक्षणस्योपचारेणापोहत्वमपि न युक्तम्, यदि शब्दवाच्यस्य वस्तुस्वरूपस्यापोहत्वं तदाऽ नन्तधर्मात्मके वस्तुन्युपसर्जनीकृतविशेषस्य पारमार्थिकवस्त्वात्मक सामान्यधर्मकलापस्य शब्दवाच्यत्वादुपचारेणापोहत्वासम्भवात् । तुच्छस्वरूपायाः व्यावृत्तेः अन्यव्यावृत्तविकल्पाकारस्य चापोहत्वे सामान्यसामानाधिकरण्यविशेषणविशेष्यभावादिव्यवहारश्च सर्व 20 एवाघटकमानः | तत्र सामान्यं साधितमेव । सामानाधिकरण्यव्यवहारश्व धर्मद्वययुक्तस्यैकधर्मिणो बहिर्भूतस्यासद्भावादयुक्तः स्यात्, नायें बाह्यार्थासंस्पर्शिविकल्पप्रतिबिम्ब के युक्तः । न च धर्मद्वयानुरक्तैकधर्मिविकल्पेऽप्ययमुपपत्स्यत इति वाच्यम्, तथाविधविकल्पाभ्युपगमेऽनेकान्तवादप्रसङ्गात् । न चानेकत्वं न तात्त्विकमिति वक्तव्यम्, तथा सति ज्ञानस्वरूपेऽविद्यमानस्यानेकत्वस्य स्वसंवेदनेनापरिच्छेदप्रसङ्गात् परिच्छेदे वा स्वसंवेदनस्याप्रत्यक्ष- 25 त्वप्रसङ्गात्, अविद्यमानवस्तुविषयकत्वात्, सदसतोरेकत्वानेकत्वयोर्मध्येऽनेकत्वादे ज्ञनितादात्म्यविरहेणानात्मभूत वैचित्र्यस्य अतदाकारज्ञानवेदनेन परिच्छेदासम्भवाञ्च । यदि च वैचित्र्यं बुद्धिमाश्लिष्यतीत्यङ्गीक्रियते तदा बहिर्भूतोऽप्यर्थस्तदाश्लिष्येत्, एकत्वनानात्वयोर्विरोधस्तु विज्ञानेऽपि तुल्य एव । बुद्धेर्नीलादिप्रतिभासानाञ्चैकयोगक्षेमत्वादेकत्वमिति चेन्न, सहभा "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy