SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ : ७६: सम्मतितत्त्वसोपाने [ एकादशम् तितद्योगजातिमत्पदार्थबुद्ध्याकारपक्षभाविनो दोषा अनास्पदा एव, म ह्येकान्तपक्षभाविदोषा अनेकान्तवादिनं समाश्लिष्यन्ति इति ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलितस्य सम्मतितत्त्व सोपानस्य शब्दसङ्केत समर्थनं नाम दशमं सोपानम् ॥ अपोहवाच्यतानिरसनम् । अपोहः शब्दार्थः, स च द्विविधः, पर्युदासरूपः प्रसज्यप्रतिषेधरूपश्चेति, पर्युदासोऽपि 10 द्विविधः, अर्थेषु अनुगतैकरूपत्वेनाध्यवसितो बुद्ध्यात्मा बुद्धिप्रतिभासः, विजातीयव्यावृत्त स्खलक्षणरूपोऽर्थात्मकश्च । तत्र यथा हरीतक्यादयो बहवस्सामान्यलक्षणमेकमर्थमन्तरेणापि ज्वरादिशमनं कार्यमुपजनयन्ति तथा शाबलेयादयोऽप्यर्था वस्तुभूतं सामान्यमन्तरेणापि प्रकृत्या एकाकारपरामर्शहेतवो भविष्यन्ति, तदनुभवबलेन यदुत्पन्न विकल्पज्ञानं तत्रार्थाका रतया ज्ञानादभिन्नं यदर्थप्रतिबिम्बकमर्थाभासो भाति तत्रान्यापोह इति व्यपदेशः, न 15 चासावर्थाभासो बाह्यकृतः, ज्ञानतादात्म्येन व्यवस्थितः सन् बाह्यार्थाभावेऽपि तत्र तस्य प्रतिभासनात् । न चात्रापोहव्यपदेशो निनिमित्तः मुख्यगौणलक्षणनिमित्तसद्भावात् । विकल्पान्तरारोपितप्रतिभासान्तराद्भेदेन स्वयं प्रतिभासनान्मुख्यस्तत्र तद्व्यपदेशः, अपोह्यत इत्यपोहः, अन्यस्मादपोह इति व्युत्पत्तेः । उपचारात्तु त्रिभिः कारणैस्तत्र तव्यपदेशः, अन्य व्यावृत्तवस्तुप्राप्तिहेतुत्वात् कारणे कार्यधर्मारोपः एकः, अपरः अन्यविविक्तवस्तुद्वाराऽऽ20 यातत्वात् कार्ये कारणधर्मारोपः, अन्यश्च विजातीयापोढपदार्थेन सह भ्रान्तैः प्रतिपत्तभिरै क्येनाध्यवसानलक्षणः, कारणैरेभिस्तत्रोपचारः । अर्थस्तु विजातीयव्यावृत्तत्वात् मुख्यतस्तव्यपदेशभाक् । प्रसज्यप्रतिषेधलक्षणस्त्वपोहः गौरयमगौर्न भवतीत्येवं लक्षणः स्फुट एव । तत्र शाब्दे ज्ञाने साक्षाद्य एव हि भासते तस्यैष शब्दार्थत्वं युक्तम् , न च शाब्दे ज्ञाने प्रसज्य प्रतिषेधस्य भानम् , वाच्याध्यवसितस्य बुद्ध्याकारस्य शब्दजन्यत्वात् , न वेन्द्रियजज्ञानवद्वस्तु. 25 स्वलक्षणप्रतिभासः, किन्तु बाह्यार्थाध्यवसायिनी केवलशाब्दी बुद्धिरुपजायते, तेन तदेवार्थ प्रतिबिम्बकं शाब्दे ज्ञाने साक्षात्तदात्मतया प्रतिभासनात् शब्दार्थो युक्त इति अपोहनये प्रथमोऽपोहव्यपदेशमासादयति । यश्च शब्दस्यार्थेन सह वाच्यवाचकभावलक्षण सम्बन्धः प्रसिद्धो १ स्वभावतः परस्परविलक्षणानर्थानेकार्थकारितया समान हेतुत्वेन च समानानाश्रित्य यदेकप्रत्यवमर्शरूपं अर्थप्रतिबिम्बस्वभावज्ञानमुत्पद्यते स बुद्धयात्मेति भावः॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy