________________
सोपानम् ]
शब्दसङ्केतसमर्थनम् । पयोगे ज्ञानान्तरप्रत्यक्षज्ञानवादिनोऽपि स्वज्ञानानुपयुक्तस्यापि ज्ञानस्यार्थज्ञाने उपयोगसम्भवादर्थचिन्तनोच्छेदलक्षणदोषप्रसङ्गदानानौचित्यात् , स्वज्ञानजननासमर्थस्यापि ज्ञानस्यार्थज्ञानजनने सामर्थ्यसम्भवात् । तस्मादनर्थक्रियाकारिणोऽक्षणिकस्य यद्यवस्तुत्वेनाकार्यत्वं तर्हि चरमक्षणस्यापि तत्स्यात् , सर्वथाऽर्थक्रियाकारित्वाभावात् । अथानर्थक्रियाकारिणोऽपि चरमक्षणस्य कार्यत्वं न तर्हि कृतकत्वमक्षणिके क्षणिकवादिना प्रतिक्षेप्तव्यं न्यायस्य 5 समानत्वात् , तस्मान्नार्थक्रियालक्षणसत्त्वविशिष्टं कृतकत्वं नित्यादक्षणिकाच सत्त्वं व्यावतयितुमलम् । एतेन सामान्यस्यानर्थक्रियाकारित्वादवस्तुत्वं निरस्तम्, न च तस्य तत्साध्यकार्यस्यैवाप्रसिद्ध्याऽनर्थक्रियाकारित्वमिति वाच्यम् , तस्य वाहदोहाद्यर्थक्रियाकारिस्वाभावेऽपि विज्ञानलक्षणकार्यकारित्वात् , अन्त्यशब्दक्षणवत् । न च केवलात्सामान्यात्तद्राहिज्ञानोदये तेन व्यक्तेः कदाप्यग्रहणात्तत्सम्बन्धित्वेन व्यक्तिग्रहणाभावेन ततो व्यक्तौ न 10 प्रवृत्तिः स्यात् , व्यक्तिसहकृतसामान्यात्तज्ज्ञानोत्पादाङ्गीकारे च प्रत्येक व्यक्त्यभावेऽपि सामान्याज्ञानोत्पत्त्या तदुत्पत्ति प्रति तासां सामर्थ्यानवधारणादिति उभयथापि ज्ञानक्रियाऽ सम्भव इति वाच्यम् , अन्यतमव्यक्तिसव्यपेक्षस्यैव सामान्यस्य तत्र सामर्थ्यात् , अन्यतमवेमापेक्षस्य कविन्दादेरिव, न हि प्रत्येकं वेमाभावे कुविन्दः पटं करोतीति कुविन्दादेव पटोत्पत्तिः, वेमरहितादनुत्पत्तेः । एवं प्रत्येक व्यक्त्यभावे विज्ञानोत्पत्तावपि न केवलं सामा 15 न्यमेव तद्धेतुः अन्यतमव्यक्त्यपेक्षस्यैव सामर्थ्यात् , सामान्यस्य व्यक्त्यपेक्षत्वञ्चैककार्य कारित्वेनैव, तस्मान्न ज्ञानलक्षणकार्यकारिणः सामान्यस्यावस्तुत्वम् । नाप्यभिधेयत्वात्तस्यावस्तुत्वम् , हेतोर्विपक्षाद्वयावृत्यसिद्धेः । न च वस्तुनोऽभिधेयत्वे साक्षाच्छन्दादेव वस्तुनो ज्ञानादिन्द्रियसंहते(यय स्यात् , न चैवम्, तस्मात् प्रकृतहेतोर्विपक्षाढ्यावृत्तिसिद्धिरिति वाच्यम् , शब्दादस्पष्टाकारतया प्रतीतस्य वस्तुनः स्पष्टाकारप्रतीत्यर्थमिन्द्रियसंहतेः साफ- 20 ल्यात् , एकस्यापि वस्तुनः स्पष्टास्पष्टप्रतिभासभेदः सामग्रीभेदात् , दूरासन्नादिभेदेन स्पष्टास्पष्टाप्रतिभासादिभेदवत्। ततो न सामान्यमवस्तु । इत्यभ्युपगमवादेन नित्य सामान्यपक्षभा. विदोषपरिहारः कृतः । वस्तुतस्तु नैकान्ततः किश्चिद्वस्तु नित्यमनित्यं वा, बहिनवपुराणाधनेकक्रमभाविपर्यायाक्रान्तस्य समानासमानपरिणामात्मकस्यैकस्य घटादेः अन्तश्च हर्षविषादाद्यनेकविवर्त्तात्मकस्य चैतन्यस्याबाधितप्रतीतिविषयस्य व्यवस्थितत्वात् । तस्मान्नै- 25 कान्ततः क्षणिकत्वं व्यक्तीनामिति सङ्केतव्यवहारकालव्यापकत्वस्य भावान्न तत्र शब्दसंके. तासम्भवः, न वा सङ्केतवैयर्थ्यम् । प्रधानोपसर्जनभावेनानेकान्तात्मकवस्तुनः प्रमाणविषयत्वाद्यत्रैव प्रत्यक्षविषये सङ्केतः स एव सामान्यविशेषात्मकः शब्दार्थ इति केवलस्वलक्षणजा
"Aho Shrutgyanam"