________________
सम्मतितस्वलोपामे
[दशमम् देव भेदः कार्यस्य, शक्तिश्च भिन्नाभिन्ना, शक्तिमतो ग्रहणेऽपि तस्या अग्रहणाद्भिन्ना, कार्यान्य. थानुपपत्या च तत्रैव प्रतीयमाना सा ततोऽभिन्ना । शक्तिमतश्च शक्ते देऽशक्तात् कार्यानुत्पत्तिः, न च शक्तरेव कार्योत्पादकत्वम् , शक्तिमतोऽकारकत्वेनावस्तुत्वप्रसङ्गात् , न च
शक्तिमतोऽपि कारकत्वम् , तस्यासामात् । नापि शक्तियोगात्तस्य शक्तत्वम, भिन्नशक्त्या 5 योगेऽपि शक्तत्वानुपपत्तेः शक्तेस्त बानुपयोगात् । उपयोगाङ्गीकारे तु शक्तितः शक्तिमत उत्प. त्तिरभ्युपगता स्यात् , तथा च स्वहेतोरेव शक्तस्योत्पत्तिरभ्युपगन्तव्या किं भिन्नशक्तिकल्प. नेन, नापि शक्तिश्शक्तिमतोऽभिन्ना, शक्तिमतो ग्रहेण तद्ग्रह्णात् । सर्वतो व्यावृत्तवस्तुबादिनां वस्तुभूतसाधाभावात् 'अतत्फलसाधाद्गृहीतामपि तां विप्रलुब्धो नाध्यवस्य.
तीति' वक्तुमशक्यत्वात् , तस्माच्छक्तिशक्तिमतोर्भेदाभेद एव, अबाधिताकारप्रत्ययस्य 10 तथैव विषयत्वात् , निरंशे च क्षणे शक्तिभेदादपि न कार्यभेदो निरंशत्वादेव, तस्मान्न क्षणिक
स्याक्रमकारित्वम् , नापि क्रमकार्यकारित्वम् , द्वितीयक्षणे क्षणिकस्याभावात् , अनेककाल. भाविकार्यकारित्वं ह्येकस्य क्रमकारित्वम् , तश्चैकक्षणस्थायिनि भावे न स्यादेव 1 ऋमिकाणां क्षणानामपेक्षयाऽक्रमोऽपि क्षणः क्रमकारी भवतीति चेन्न, अक्षणिकस्यापि क्रमवत्सह
कार्यपेक्षया क्रमकारित्वसम्भवात् । अक्षणिकस्य स्वतोऽक्रमत्वेऽक्रमेणैव कार्योत्पत्तिः स्यात् , 15 अनाधेयातिशयस्याक्षणिकस्य कालान्तरसहकारिप्रतीक्षाऽयोगादिति चेन्न, क्षणिकस्येवा
क्षणिकस्य अनाधेयातिशयस्यापि कार्यकारित्वस्य कालान्तरनियतत्वात् , सहकारित्वं ह्येककार्यकारित्वमतोऽक्षणिकस्य युक्ता सहकारिप्रत्ययापेक्षा । क्षणिकस्यापि हिन सहकारिणि कालान्तरे वाऽतिशयाधायकत्वेनापेक्षा, तस्यानतिशयत्वात् क्षणस्याविवेकाच, किन्तु काला
न्तरभाव्येककार्यकारित्वेन सहकारिसहायस्यैव च सामर्थ्यात् , अन्यथा सामग्री जनिका 20 न स्यात्, इष्टापत्तौ द्वितीयक्षणापेक्षा न स्यात् , आद्यक्षण एव कार्यस्योत्पत्त्यापत्तेः । परस्परो
पकारित्वञ्च सन्तानेष्वेककार्यकारित्वमेव, सहकारिक्षणात कार्यकारिणः क्षणस्याप्यनुपकारात् सर्वत्रैकार्थकारित्वमेव सहकारित्वम् , अतोऽनुपकारिण्यपि सहकारिणि कालान्तरे वाऽपेक्षासम्भवात् क्रमवत्सहकार्यपेक्षयाऽक्रमस्यापि क्रमकारित्वं किं न स्यात् , तदेवं क्षणिके क्रमयो
गपद्याभ्यामर्थक्रियाविरोधात् ततोऽर्थक्रियालक्षणसत्त्वविशिष्टं कृतकत्वं निवर्तमानं गत्य. 25 न्तराभावादक्षणिकाद्यवकाशमिति साध्यविपर्ययसाधनाद्विरुद्धं स्यात् । एवं शब्दविद्युत्प्रदी.
पादिचरमक्षणानामन्यत्रानुपयोगेनानर्थक्रियाकारिणामपि कार्यत्वेनानैकान्तिकं स्यात् , न च तेषामन्यत्रानुपयोगेऽवस्तुत्वादकार्यत्वमिति वाच्यम्, अशेषतत्सन्तानस्याप्यवस्तुत्व. प्रसङ्गात् । न च तेषामनुपयुक्तताऽसिद्धा योगिविज्ञानलक्षणविजातीयकार्यकरणादिति वा. क्यम् , सजातीयं प्रत्यनुपयोगे विजातीयेऽपि तेषामनुपयोगात् , एकत्रानुपयोगिनोऽन्यत्राप्यु
"Aho Shrutgyanam"