SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ सोपानम् । शब्दसङ्केतसमर्थनम् । प्रतीतिर्विकल्परूपत्वादारोपितगोचरा सम्बन्धेऽसत्यपि तमादर्शयत्यतो न तस्मात्सम्बन्धव्यवस्थेति कथ्यते तर्हि सम्बन्धप्रतीतेशद्यानुपपत्तिः विकल्पस्याविशदरूपताभ्युपगमात् , न हि विकल्पाविकल्पयोर्युगपद्वृत्तरेकत्वाध्यवसायाद्वैशद्यभ्रमः, तथा सति सहभाविनोर्गोदर्शनाश्व. विकल्पयोरप्येकत्वाध्यवसायात् वैशद्यविभ्रमः स्यात् । न चासम्बद्धैः परमाणुभिस्सम्बन्धग्राहीन्द्रियज्ञानं जन्यते ततो न दोष इति वाच्यम् , असम्बद्धान् सम्बद्धानिव प्रकाशयतोऽ- 5 ध्यक्षज्ञानस्य भ्रान्तत्वापत्त्या प्रत्यक्षत्वासम्भवात् , प्रत्यक्षत्वे च परमाणुसम्बन्धसिद्धिरेव स्यात् , असम्बद्धानाञ्च परमाणूनां जलधारणाद्यर्थक्रियाकारित्वानुपपत्तेः, वंशादीनामेकदे. शाकर्षणे परस्परं परमाणूनामसम्बन्धे तदपरदेशाकर्षणस्योपलभ्यमानस्याभावापत्तेच, तस्मानैकान्ततः प्रतिक्षणविनाशस्यानपेक्षतासिद्धिः । न च क्रमयोगपद्याभ्यामर्थक्रियालक्षणस्य व्यापकस्याक्षणिकेऽनुपलब्ध्या ततो व्यावर्त्तमान सत्वलक्षणं कृतकत्वं गत्यन्तराभावात् क्षणि- 10 केण्वेवावतिष्ठत इति व्यापकानुपलब्ध्या साध्यसाधनयोरविनाभावसिद्धिरिति वाच्यम् , नित्यानित्यात्मकस्य भावस्य प्रकारान्तरस्य सद्भावेन व्यापकानुपलब्ध्याऽविनाभावस्यासिद्धेः, कृतकत्वस्य क्षणिकत्वेनैव व्याप्त्ययोगात् , क्षणिकस्वभावापेक्षया कृतकानामपि केषाञ्चिन्मते उभयात्मकत्वेन क्षणिकस्वभावाभावादनपेक्षत्वहेतो गासिद्धेश्च । विपक्षाघ्यापकानुपलब्ध्या व्यावृत्तस्य हेतोरभीष्ट एव साध्याव्यभिचार इति चेन्न, अक्षणिकवादिनाऽक्षणिकाव्यभिचा- 15 रस्याप्येवं वक्तुं शक्यत्वात् , क्रमयोगपद्याभ्यां हि क्षणिकेऽर्थक्रियाविरोधः, एकसामध्यन्त. र्गतयुगपदनेककार्यकारिण एकस्य स्वभावभेदमन्तरेण जनकत्वस्य कार्यभेदस्य वाऽयोगात् स्वभावभेदे चानेकत्वप्रसङ्गान्नैकस्य युगपदनेककार्यकारित्वम , कारणस्वभावशक्तिभेदं विनापि उपादानभेदात्कार्यस्य भेदमिच्छता शक्तिभेदोऽभ्युपगत एव, उपादानसहकारिभावेनानेकेषु कार्येषु वस्तुक्षणस्यैकस्योपयोगाभ्युपगमात् , उपादानत्वसहकारित्वयोः परस्परं भेदात् । न 20 चैकत्र योऽयमुपादानभावः स एवान्यन्न सहकारिभाव इति वाच्यम् , तथा सति तत्कारणं सहकारि वा स्यादुपादानं वा, सहकार्युपादानभावयोरभेदात् , तद्यधुपादानं स्यान्न तर्हि कार्यभेदः, सर्व प्रत्युपादानत्वात् , यदि तु सहकारि तद्युपादानस्यैवाभावात् तद्भेदात्कार्यभेदो न स्यात् , तथापि क्षणस्यैकत्रोपादानभाव एवापरत्र सहकारिभाव इति न शक्तिभेद उच्यते तर्हि अक्षणिकस्याप्येकदैककार्यकारित्वमेवान्यदाऽन्यकार्यकारित्वमिति क्रमेणान्यकार्यकारिणः शक्ति- 25 भेदो न स्यात् । न वोपादानभेदादेव कार्यभेदः, गोदर्शनसमयेऽश्वं विकल्पयतः मनस्कारलक्षणोपादानभेदाभावेऽपि सविकल्पाविकल्पयोः परेण भेदाभ्युपगमात् । तद्भेदेऽपि च तदुत्तरकालभाविनोऽनुसन्धानस्याभेदान्नोपादानभेदादुपादेयस्य भेद एव । अतः शक्तिभेदा "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy