SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ : ७५ : सम्मfccessोपानम् [ दशम तदापि तत्व सर्वदा सद्भावप्रसङ्गात्, द्विक्षणावस्थायित्वे हि द्वितीयेऽपि क्षणे क्षणद्वयस्थितिस्वभावत्वम् । अन्यथा स्वभावभेदात् क्षणिकत्वप्रसङ्गात् एवं तृतीयेऽपि क्षणेऽवस्थानं स्यात्, भावस्य भावात् तथा चतुरादिक्षणेष्वपि । तथा च सत्यासंसारं भावस्य स्थितेरविनाशाद्विनाशप्रतीतिर्न स्यात्, भवति च विनाशप्रतीतिः, अतस्तदन्यथानुपपत्त्या प्रतिक्षणविनाशानुमानं 5 दृश्यात्मकस्य कार्यस्य । अदृश्यात्मनोऽप्याये क्षणे यः स्वभावः प्रागभूत्वा भवनलक्षणः स एव चेद् द्वितीयक्षणेऽपि तर्हि प्रागभूत्वा भावस्य भावात् क्षणिकत्वम् । यदि प्रथमे क्षणे जन्मैव न तु स्थितिः, द्वितीये क्षणे स्थितिरेव न जन्मेत्युच्यते तथापि जन्म तद्वतो: स्थितितद्वतश्चाभेदेन तयोश्च भेदात् प्रतिक्षणमनवस्थायित्वमेव सिद्धम्, परस्परभिन्नस्यापरापरकालसम्बन्धित्वस्य भावस्वभावत्वादपि प्रतिक्षणमनवस्थायित्वमिति सिद्धं विनाशं प्रत्यनपे10 क्षत्वं भावस्येति चेन्मैवम् स्वहेतोरेवानेकक्षणस्थायी भावो भूतक्षणेष्वभवन् वर्त्तमानक्ष णेषु तिष्ठन् भविष्यत्क्षणेषु स्थास्यंश्च प्रथमक्षण एव जात इत्यसताप्यनागतादिना कालेन भावस्य विशेष्यत्वमविरुद्धम्, द्वितीयक्षणे कार्यकारिकारणसामर्थ्यवत्, अन्यथा कार्यकारणयोरेक दैवोत्पत्तेरेकक्षणस्थायि जगत् स्थादिति प्रागुत्पत्तेरभूत्वा भावेऽपि भावस्य द्वितीयादिक्षणे सत्त्वान्न क्षणिकत्वम् । न वाऽपरापरकालसम्बन्धेऽपि भावस्यान्यान्यस्वभावत्वम्, 15 परमाणुषट्कसम्बन्धेऽप्येकपरमाणुवत् । न चासम्बन्धः परस्परं परमाणूनामयःशलाकाकल्पत्वादिति वाच्यम्, सम्बन्धस्य प्रतीयमानतया तदद्भावकल्पनाऽयोगात् । न च सम्बन्धकल्पने कृत्स्नैकदेशसम्बन्धविकल्पयोगः, सर्वात्मना हि परमाणूनां सम्बन्धे पिण्डस्याणुमात्रता स्यात्, एकदेशेनाभिसम्बन्धे तेषामेकदेशानां परमाण्वात्मभूतत्वे नैकदेशेनाभिसम्बन्धः, तेषामभावात् । परमाणुभिन्नत्वे तु एकदेशानां परमाणुभिः सर्वात्मना सम्बन्धेऽमे20 दात, एकदेशैकदेशिनोरेक देशाभावान्नैकदेशेनापि सम्बन्धस्तेषाम्, तत्राप्येकदेशकल्पनेऽनवस्थानात् । न च प्रकारान्तरेण सम्बन्धो दृष्टस्तेषां तस्मादनुपलभ्यमानस्यापि परमाण्वसम्बन्धस्य कल्पनेति वाच्यम्, अदृष्टस्यासम्बन्धस्येव सम्बन्धप्रकारान्तरस्यैव कल्पनाप्रसङ्गात् यतः सर्वात्मना एकदेशेन वा सम्बन्धो नोपपद्यते, अथ च सम्बन्धः प्रतीयते तस्मात्प्रकारान्तरेणैषां सम्बन्ध इति कल्पनाया एव सम्यक्त्वात्, तथा च सति नापि प्रतीतिविरोधः स्यात् । यदि , १ पारतंत्र्यं हि सम्बन्धसिद्धिका परतंत्रता । तस्मात् सर्वस्य भावस्य सम्बन्धो नास्ति तत्त्वतः ॥ परापेक्षा हि सम्बन्धः सोऽसन् कथमपेक्षते । संच सर्वनिराशंसो भावः कथमपेक्षते ॥ २ अर्थानां सम्बन्धो हि प्रतिभासतेऽबाधिताध्यक्षे, पटो हि तन्तुसम्बद्ध रूपादयश्च पटादिसम्बद्धाः अवभासन्ते, सम्बन्धाभावे तेषां विश्लिष्टताप्रतिभासः स्यात्, अर्थक्रियाघटनं च न स्यात् परमाणूनां परस्परं सम्बन्धाभावन जलधारणाद्यर्थक्रियाया अघटनात् । तस्मात् केनचिदेशेन सम्बन्धिनोस्तादात्म्यमतादात्म्यश्वावश्यमभ्युपेयम् भावानां प्रतीयमानोऽयं कथञ्चित्प्रत्यासत्तिविप्रकर्षश्च स्वस्वभावः न तु सर्वथा विप्रकर्षः प्रतीयते मेन पारतंत्र्यादिप्रयुक्तदोषावकाशो भवेदिति भावः ॥ " Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy