SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ भोपानम् ] शासनसमर्थनम् । त्वादिव्यवच्छेद्यस्य नित्यादेवस्तुनोऽभावेन व्यवच्छेद्याभावाद्भेदासिद्धेः । कल्पितव्यवच्छेयेन व्यवच्छेदभेदाभ्युपगमे तु अन्योन्याश्रयः, तत्र कल्पनाया अपीतरव्यवच्छेदेन क्रियमाणतयाऽन्योन्यव्यवच्छेद्येन व्यवच्छेदयोर्व्यवस्थितस्वरूपत्वात् । न तृतीयः, असत्त्वाधारोपस्य सत्त्वादावभावात् , भावे चानित्यत्ववत् साध्यत्वमनुषज्येत, तत्साधने च तद्धेतोरसिद्धविरुद्धानकान्तिकदोषत्रयानतिवृत्तिर्भवदभिप्रायेण । न चरमः, शन्दत्वादेरपि बुद्धिप्रति- 5 भासभेदेन भेदात् साधनभावः स्यात् , तथा च न कश्चित् प्रतिज्ञाथैकदेशासिद्धो हेतुः स्यात् , न च शब्दाच्छब्दत्वस्य न प्रतिभासभेदः, तथा सति धर्मधर्मिव्यवस्थाऽभावप्रसक्तः । न च प्रतिभासभेदेऽपि व्यवच्छेद्यभेदाभावाच्छन्दत्वस्य प्रतिज्ञार्थंकदेशत्वम् , तथा सति भावद्रव्याभिधायिनोरभिधानयोरपर्यायता न स्यात्, शब्दशब्देन शब्दत्वस्याप्यभिधानात् , अन्यथा प्रतिज्ञार्थंकदेशतापि न स्यात् , तस्मान्न कृतकत्वानित्यत्वयोः साध्यसाधनभावो भवदभिप्रा- 10 येण, तयोर्भेदाभावात् । वस्तुतस्तयोरभेदेऽपि निश्चयवशागम्यगमकमाव इति कृतकत्वाध्यवसायिनिश्चयेन भेदेन निश्चीयमानं कृतकत्वमनित्यत्वस्य गमकमिति चेन्न, वस्तुगतयोर्ययोः कृतकत्वानित्यत्वयोस्तादात्म्यप्रतिबन्धस्तयोरनिश्चयात् , ययोश्च विकल्पबुद्धिप्रतिभासिनो:देन निश्चयस्तयोस्तादात्म्यनिबन्धनगम्यगमकत्वाभावात् ; ते हि बुद्ध्यारूढे, अतोऽवस्तुत्वेन न तयोः प्रतिबन्धः । ननु तयोर्भेद एव काल्पनिकः, न तु वस्तुस्वरूपमपि, शब्दस्वलक्षण- 15 स्याकृतकनित्यव्यावृत्तनिरंशैकस्वभावत्वात् , कृतकत्वादिविकल्पास्तु शब्दस्वलक्षणगतकृतकत्वादिभिअधर्माध्यवसायिनः तथाभूतस्वलक्षणानुभवद्वारायातत्वेन तत्प्रतिबद्धाः, अतस्तत्प्रतिभासिधर्मयोः साध्यसाधनभावोऽव्यभिचारश्च पारम्पर्येण वस्तुप्रतिबन्धादुपपद्यत एवेति चेन्न, तथाविधस्वलक्षणस्य प्रत्यक्षतोऽसिद्धेः, स्वप्नेऽपि निरंशक्षणिकानेकपरमाणुरूपस्य तस्यासंवेदनात् , कृतकत्वादिधर्माध्यासितस्य प्रत्यक्षे प्रतिभासमानस्य तस्य चानिरंशत्वात् । 20 न वाऽनुमानलक्षणविकल्पेन तस्य सिद्धिः, प्रतिबन्धासिद्धाक्नुमानाप्रवृत्तेः । किञ्च साध्यसाधनयोर्भेदेऽपि न त्वत्पक्षे तयोरविनाभावसाधकं प्रमाणमस्ति । न च विनाशस्य निर्हेतुकत्वात् 'भावो विनाशस्वभावनियतः, तद्भावे भावस्यान्यानपेक्षणात् , यथा स्वकार्योत्पादनेऽन्त्यकारणसामग्रीविशेष इत्यादि साधनसद्भावात् प्रकृतसाध्यसाधनयोरविनाभाव इति वाच्यम् , साधनस्यानैकान्तिकत्वात् , शाल्यङ्कुरोत्पादनेऽनपेक्षमाणानामपि यवबीजादीनां 25 तदुत्पादनसामग्रीसन्निधानदशायां तद्भावनियमाभावात् । यवबीजादौ शाल्यङ्करोत्पादनस्व. भावताविरहात् , तस्य तत्स्वभावापेक्षयाऽनपेक्षत्वमसिद्धमिति चेत्तर्हि कृतकानामपि विनाश. स्वभावापेक्षत्वात् केषाश्चित्तत्स्वभावाभावादनपेक्षत्वस्यासिद्धत्वापत्तेः । ननु विनाशितयोपलब्धानामर्थानां प्रतिक्षणं विनाशाभावे न स्याद्विनाशप्रतीतिः, द्वितीये क्षणेऽपि भावस्य सद्भावे "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy