SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] द्रव्यार्थिकस्वरूपम् । किश्चिदेव कार्य क्रियते न सर्वम् , किश्चिदेव चोपादानमुपादीयते तदेव समर्थं न तु सर्वम् , किञ्चिदेव च कुतश्चिद्भवति न तु सर्वं सर्वस्मादिति चेन्न, शक्तानामपि हेतूनां कार्य कुर्वाणानां शक्यक्रियस्यैव कार्यस्य करणान्नाशक्यस्य । न च नाशक्यं कुर्वन्तीति वदामः किन्तु असदपि कार्यं कुर्वन्तीति, तच शक्य क्रियमेवेति वाच्यम् , असत्कार्यकारित्वाभ्युपगमादेवाशक्यक्रियं कुर्वन्तीति प्राप्तः, यासत् तन्नीरूपं यच्च नीरूपं तच्छशविषाणादिवदनाधेयातिशयम् , 5 यच्चानाधेयातिशयं तदाकाशवदविकारि, तथाभूतञ्चासमासादित विशेषरूपं कथं केनचिच्छक्येत कर्तुम् । न च सदवस्थाप्रतिपत्तेर्ना विकारीति वाच्यम्, तथा सत्यात्महानिप्राप्तेः, विकारे ह्यभीष्टे निरुपाख्यलक्षणस्य स्वरूपस्य हानिर्भवेत्, न ह्यसतः स्वभावापरि. त्यागे सद्रूपतापत्तियुक्ता, परित्यागे वाऽसदेव सद्रूपता प्रतिपन्नमिति न सिद्धयेत् , अन्यदेव हि सद्रूपमन्यदेवासद्रूपम् , परस्परपरिहारेण तयोरवस्थानात् , तस्माद्यदसत्तदशक्यक्रियमेव, 10 अतस्तथाभूतपदार्थकारित्वाभ्युपगमे कारणानामशक्यकारित्वमेवाभ्युपगतं स्यात्, न चाशक्यं केनचित् क्रियते यथा गगनांभोरुहम् , अतः शक्तिप्रतिनियमादित्यनुत्तरम् , तस्मात् शक्तस्य शक्यकरणात्सत् कार्यम् । पूर्वोदितेभ्यो हेतुभ्योऽसत्कार्यवादे कथमपि कार्यस्यायोगाद्वीजादिक किं कुर्वत्कारणं स्यात् , ततश्चैवं वक्तुं शक्यं न कारणं बीजादिः, अविद्यमानकार्यत्वात् , गगनाब्जवत् , न चैवं भवति तस्मात्कारणभावात् सिद्धं प्रागुत्पत्तेः सत्कार्य मिति । भवतु 16 सत्कार्यमिति, प्रधानादेव महदादिकार्यभेदाः प्रवर्तन्त इति कथं सिद्ध्यति, उच्यते 'भेदानां परिमाणात् समन्वयात् शक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य । कारणमस्त्यव्यक्तम् ' इति [ सांख्यका० १५ ] अस्ति प्रधानं, भेदानां परिमाणात्, लोके हि यस्य कर्ता भवति तस्य परिमाणं दृष्टम् , यथा कुलालः परिमितान्मृत्पिण्डात् परिमितं घटमुत्पादयति प्रस्थग्राहिणमाढकग्राहिणं वा, महदा दिव्यक्तञ्च परिमितमुपलभ्यते, एका बुद्धिरेकोऽहङ्कार 20 इत्येवम् , तस्मादस्ति प्रधानं यत्परिमितं व्यक्तमुत्पादयति, यदि तन्न स्यानिष्परिमाणमिदं व्यक्तं स्यादिति । भेदानां समन्वयादस्ति प्रधानम् , यद्धि यजातिसमन्वितमुपलभ्यते तत्तन्मयकारणसम्भूतम् , यथा घटशरावादयो मृजात्यन्विता मृदात्मककारणसम्भूताः, व्यक्तश्चेदं सुखदुःखमोहादिजातिसमन्वितं तस्मात्तन्मयप्रकृतिसम्भूतं तदिति प्रधानसिद्धिः। शक्तितः प्रवृत्ते. रस्ति प्रधानम् , इह लोके यो यस्मिन्नर्थे प्रवर्तते स तत्र शक्तः, यथा तन्तुवायः पटकरणे, अतः 25 प्रधानस्यास्ति शक्तिर्यया व्यक्तमुत्पादयति, सा च शक्तिर्न निराश्रया, अतोऽस्ति प्रधान यन्त्र शक्तिर्वर्तत इति । कारणकार्यविभागादस्ति प्रधानम् , लोके हि कार्यकारणयोर्विभागो दृष्टः यथा मृत्पिण्डः कारणं घटः कार्य स च मृत्पिण्डाद्भिन्नस्वभावः, घटो हि जलधारणादिसमर्थो न मृत्पिण्डः, एवमिदं महदादिकार्य दृष्ट्वाऽस्ति प्रधानं कारणं यस्मादिदं महदादिकार्य जायत "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy