________________
प्रथमोऽधिकारः
[ ३९
10
सेन मुक्ताकणा आनीयन्ता भवद्भिः। युगन्धरीयमस्मत्पुरेऽस्ति, ततो विवादे जायमाने राजपावे तैः सह गन्तव्यम् । राजा मुक्ताफलैः सह तोलयित्वा चन्दनं तावकं तेभ्यो दापयिष्यते । ततो वेश्योक्तमङ्गीकृत्य मेघो राजपार्श्वे तैः सह विवादेन सदृशं के (कण्ठ) शिथिलं कारयामास । ततो मण्डविकाः पितुर्वचसा लात्वा शनैश्चन्दनं विक्रीय बलीः कोटीरजयामास मेघः, ततोमदनावेश्यायै बहुधनं दत्त्वा पश्चास्वपुरीमागात्। पितुर्मिलितः पिता मुमुदेतराम् । ततः सप्तक्षेत्र्यां श्रियं व्ययति 5 स्म पितरि स्वर्ग गते स्वयं गृहस्वामी भूत्वा दानादि ददानो महातीर्थेषु शत्रुक्षयादियात्रां चकार, मुक्तिगमनयोग्यं पुण्यमर्जयामास । ___मेघस्यापि सोमनामा पुत्रोऽभूत् , जन्मोत्सवः कृतः, पाठितः धर्मकर्मशास्त्राणि, परिणायितश्च । श्रेष्ठी मेघः समुत्पन्नवैराग्यः पुत्रे गृहभारं मुक्त्वा दीक्षा ललौ, कर्मक्षयान्मुक्ति ययौ मेघः ॥ इति स्वभाग्यविषये मेघकथा ॥५६॥
. [57 ] कर्मोपरि अनिरुद्धभूपकथा । ___एकदा अनिरुद्धराजा प्राह---गुरुपार्थे भगवन् ! पाण्डवा विज्ञा अभूवन् । तैरेवं युद्ध किं कृतम् ? तेषां वारके श्रीनेमिनाथो जिनोऽभूत् ।
गुरवो जगुः-भवितव्यताने को [कोऽपि न छुटति । अनिरुद्धोऽवग्-यदि सावधानीभूय स्थीयते तदा किं करोति कर्म ? तदा- 15
गुरवो जगुः-त्वयैतानि कार्याणि न कर्तव्यानि, यद्येतानि करिष्यन्ते तदाऽनर्थो भविष्यति ।
अनिरुद्धोऽवग-कानि कार्याणि ?
गुरुराह-त्वया चतसृषु दिक्षु न गन्तव्यं । यदि कार्य कदाचिद्भवति तदा न पूर्वस्या गन्तव्यम् । यदि पूर्वस्यां गच्छेस्तदा पापर्द्धिन कार्या । यदि पापद्धिं कुरुषे तदा सूकरो न हन्तव्यो। 20 यदि सूकरं हनिष्यसि तदा सूकरी न हन्तव्या । यदि सूकरी हंसि तदा धवला त्याज्या । यदि धवला हता तदा त्वया गृहे न नेया। यदि गृहे नयसि तदा तस्या मांसं न भक्षणीयम् । यदि भक्षयसि मांसं तदा त्वया उपरि पानीयं न पेयं । यदि पानीयं पिबसि तदा तम्बोलो न भक्षणीयः [ताम्बूलं न भक्षणीयम् ] इत्यादि नियममङ्गीकृत्यऽनिरुद्धभूपः स्वगृहे समागात् , क्रमात्सर्व नियमं विसस्मार । कुष्ठी जातः, ततस्तं तादृशं दृष्ट्वा गुरुभिरुक्तं-कर्मणोऽने कोऽपि 25 न छुटति । ततो विशेषतोऽनिरुदभूपः पुण्यं कुर्वाणः पूर्वकृतानि कर्माणि नाशं चकार, यतः
कत्थई जीयो बलिओ, कत्थइ कम्माई हुंति बलिआई ।
जीवस्स य कम्मरस य, पुव्वनिबद्धाई वयराइं ॥१॥ एवं सर्वैः जीवैरपि कर्मवशगतैः संसारे दुःखसुखानि पापपुण्ययोगाल्लभ्यन्ते ।
इति कर्मोपरि अनिरुद्धभूपकथा ॥५७।।
30
"Aho Shrutgyanam"