________________
२८ ]
प्रबन्धपश्वशती
" इतो व्याघ्र इतस्तटी” । ततो लोकैरुक्तम - अस्माकं भाग्यानुसारेण भवानेव राजाकृतो देवेन कस्य दोषो दीयते ॥ इति कर्मोपरि दुष्टभूपकथा ॥ ५५ ॥
[56] स्वभाग्यविषये मेघकथा |
श्रीपुरे चन्द्रभूषो राज्यं करोति स्म । तत्र धीरः श्रेष्ठी, धारिणी [तस्य ] प्रियाऽभूत् । 5 क्रमात्पुत्रो मेघाह्वोऽभूत् । धर्मकर्मशास्त्राणि पाठितः । स पित्रा परिणायितः । एकदा पितुः पार्श्वे पुत्रोऽवगू- अहं श्रियोर्थं विदेशं यास्यामि । यतः
10
विदेशे मनुजाः प्राप्ताः, प्रायोऽर्जयन्ति वैभवम् ।
स्वस्य शक्ति च जानन्ति चरित्रं देहिनामपि ॥ १ ॥
,
यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान्गुणज्ञः । स एव चक्ता सच माननीयः सर्वे गुणाः काञ्चनमाश्रयन्ति ||२॥
इत्युक्त्वा बलात् पितरं पर्यवसान्य चन्दनैः शकटानि भृत्वा चलितुं प्रस्थानं बहिर्ददौ, तदा पिताऽवम् यदि त्वं कुसुमपुरेऽगमिष्यः[ गमिष्यसि ] तदा तत्र त्वया सावधानेन चिन्त्यम् । तत्र धूर्त्ताः सन्ति । ते तु त्वां छलयिष्यन्ति । प्रथमं तत्रत्या मण्डविका ग्राह्या, चन्दनं तु स्वर्णतौल्येन विक्रीष्यते त्वया । पुत्रः प्राह - तव वचः प्रमाणं । ततश्वलितो मेघो गच्छन् कुसुमपुरा15 दर्जा पचगव्यूतीर्गतः । तदा तत्र चत्वारो धूर्त्ताः तत्र [तस्य ] संमुखमीयुः । सार्थसमीपे चन्दनैरिङ्गिष्टकं कृत्वा शीतमुत्तारयितुं तस्थुः । इतस्तत्रागतो मेघश्चन्दनं ज्वाल्यमानं दृष्ट्वा प्राह-- किं भवद्भिश्चन्दनं ज्वाल्यते ? तैरुक्तम् - अस्मत्पुरे चन्दनं कणसमं तोलयित्वा विक्रीयते गृह्यते च । मेघो दध्यौ -- अत्र चन्दनं स्वर्णतुल्यं श्रुतं साम्प्रतमेते चन्दनं कुर्वन्तः सन्ति । ततः किं करिष्यते मया । तदा मेघं कृष्णास्यं वीक्ष्य ते जगुः -- किं भवता कृष्णास्यं कृतं ? समुसमग्रतः 20 स्वागमनपितृजल्पनादिस्वरूपं जजल्प सः । कोऽत्र चन्दनस्य लाताऽस्ति । विक्रीयतोऽत्रैव मया शुल्कमुद्धरति । यूयं चन्दनं यदि ग्रहीष्यथ तदा भवद्भयो दास्ये । ते जगुरस्माकं चन्दनेन किं प्रयोजनम् । अस्मद् गृहेऽपि चन्दनं धनं विद्यते । पुरेऽपि च यदि चन्दनं विक्रेतुं वान्छाऽस्ति तदाऽत्रैव पुरे वणिग्भ्यो दापयिष्यतेऽस्माभिः । ततस्तैस्तत्र वणिजां कर्णबन्धेन कणतौल्येन दापितम् सत्यंकारोऽपि दत्तः । स च मेघश्चन्दनं तेभ्यः सत्यंकारतो दत्त्वा पुरमध्ये गतो द्रष्टुं पुरीं चन्दनं 25 स्वर्णतौल्येन विक्रीयमाणं दृष्ट्वा कृष्णाननोऽभूत् किं करिष्यते ? चन्दनं तु पुरा विक्रीतम् । कामसेना वेश्यागृहे गतः, तया पृष्टः, स चन्दनविक्रयसम्बन्धं जगौ । वैश्ययोक्तं-त्वं वाहितस्तैः अत्र धूर्त्ताः एव बहवः सन्ति, ते वैदेशिकं छलयन्ति । यदि मदुक्तं कुरु तदा तथा धियं दास्यामि यथा तव चन्दनं वलति । तेनोक्तं - भवदुक्तं करिष्यते मया । वेश्या जगौ-त्वं तत्र गच्छ, चन्दनं कर्षयित्वा चन्दनग्राहकाणां पुरः प्रोक्तव्यं प्रवक्तव्यम् ] कणा [न् ] आदावानयन्तु 30 यथा तैः सह चन्दनं तोलयित्वा दीयते । यदा तैर्युगन्धरी तत्रानीयते तदा त्वया वक्तव्यं - पर्य
तु वैदेशिकाः स्वर्णमूल्यं चन्दनं ज्ञात्वाऽत्रागच्छामः । भवद्भिस्तु कणैरित्युक्त्वा चन्दनं गृहीतम् ।
" Aho Shrutgyanam"