________________
प्रथमोऽधिकारः
[२७ [54 ] मणकपरीक्षितवैद्यकथा । : वीरपुरे भूपडनृपस्य वैद्यानां पञ्चशतानि विद्यन्ते । तस्य चैको मणको राक्षां मनो रञ्जयति । सर्वान् वैद्यान् विदुषंमन्यान् दृष्ट्वा मणको वैद्यस्योपान्ते गत्वा नालिकेरमेकं तस्मै रखौ, प्राह चेति ममातीव शिरोतिर्विद्यते, स्फेटय त्वं, ततस्तेनौषध[प्रयोगः प्रोक्तः । एवं. प्रच्छन्नं सर्वेषां वैद्यानां गृहेषु गत्वा नालिकेरं दत्त्वा शिरोतिस्फेटनविषये पृथक्पृथगौषधं जज्ञे। 5 सर्वेषी वैद्यानामुक्तान्यौषधानि कागदे लिलेख मणकस्तेषां हस्तेभ्यः, ततो राज्ञोऽग्रे प्राह मणकः स्वं कृतम् । एते वैद्याः किमपि न जानन्तिः । ततो भूपोऽवग-भो वैद्याः ! यूयं किं सम्यग रोगस्वरूपं न जानीथ ? तैरुक्तम्-अस्माभिर्ज्ञायते सम्यग् । ततो मणको वैद्यलिखितौषधमयं कागदं राज्ञा[ज्ञोऽग्रे मुक्त्वाऽवग-मम रोगस्य स्वरूपं न ज्ञातं, कथमन्येषां नृणां ज्ञास्यति ? अहं मुधा दण्डितोऽस्मि भवद्भिः । एवं लोका अपि दण्ड्यन्ते । मम शिरोतिस्वरूपं न ज्ञातं 10 ततो राजाऽवग् अस्य मणकस्य यद्गृहीतं तद्दशगुणं ददत, नो चेन्न छुटिध्यते । ततोऽखिलैवैद्यैर्दशगुणं प्रत्यर्पितम् ॥ इति मणकपरीक्षितवैद्यकथा ॥५४॥
[55 ] कर्मोपरि दुष्टभूपकथा । चन्द्रपुरात् धनश्रेष्ठी सेवकयुक् चचाल विदेशं प्रति । मार्गे वृक्षस्याधस्तात् तस्थौ श्रेष्टी। भृत्यः पादौ श्रेष्ठिनश्वम्पयति स्म । वातौ कुर्वन् सेवकः प्राह-स्वामिन् ! यदि तव राज्यं भवति 15 तदा त्वं कथं राज्यं पालयति ? श्रेष्ठी पाह-स्वां मन्त्रिणं करिष्ये सर्वाः प्रजाः सुखिनीश्च करिष्ये । ततः श्रेष्ठी प्राह-कदाचित् कर्मयोगात्तव राज्यं स्यात्तदा त्वं कथं राज्यं करिष्ये सि ?] । भृत्योऽवग-यद्यहं राज्यं लभिष्ये लप्स्ये] तदा सर्व जनं दुःखिनमेव करिष्ये । ततश्चलितः श्रेष्ठी मार्गे गच्छतोस्तयोरकस्मालक्ष्मीपुराधीशे पुत्ररहिते मृतेऽमात्यैर्गजाद्यधिष्ठानयोगतः श्रेष्ठिसेवकस्य चम्पकस्यास्य राज्यं दत्तम् । जाते राज्ये भृत्योऽवग-असौ मम स्वामी गच्छन् वाल्यताम् , ततो 20 भीतः श्रेष्ठी, पश्चादानीतोऽमात्यैश्चम्पकभूपोपान्ते । तेन राज्ञा श्रेष्ठी मन्त्रिमुख्यः कृतः। राजा सर्वान् बहुकरग्रहणात् दुःखीचकार, केचिल्लोका गुप्तिगृहे क्षिप्ताः, केचित्कदर्थ्यन्ते, केचिद्धाः शृङ्खलायाम् ।
इतो दीपालिका समागात्तदानी गुप्त्यादिस्थैजनैः श्रेष्ठी प्रोक्तः वर्षण दीपपर्व समागच्छवदस्ति]स्ति । यदि दिनत्रय[दिन]चतुष्टयं वा राज्ञा मोच्यन्ते[मोच्यामहे] वयं तदा वयं स्वजने 25 मातृपितृभ्रात्रादिभिः[मातापिताभ्रात्रादिभिः] सह मिलित्वा सुखमनुभवामः। ततः श्रेष्ठिनाऽमात्येन राजानं विज्ञप्य लोकः स्वस्वगृहं प्रेषितः, मिलिताः स्वजनादिभिः सह वर्यानपानमोदकादिभिः भक्षणात्सुखिनोऽभूवन् ।
इतो रात्रौ राज्याधिष्ठितदेवेन समेत्य राजानं कशाधातैस्ताडयन्नाह-त्वं मया राज्ये स्थापितोऽसि लोकानां दुःखोत्पादनार्थ, कथं सुखिनस्तान् करोषि, यद्यतः परं लोकान् सुखिनस्त्वं 30 करोषि तदैवं कुट्टयिष्यते मया । प्राग्वत् राजा लोकान् तथैव दुखिनश्वकार | श्रेष्ठी प्राहस्वामिम् ! कथं कुट्यन्ते एते लोकाः ? राजा तदा रात्रिस्वरूपं प्रोक्तवान, अहं कथं करोमि
"Aho Shrutgyanam"