________________
२६ ]
प्रबन्धपञ्चशती
10
मम मातापितरौ मृतो, अहं निराधाराऽभूवं । ततस्तेन द्विजेन निरपत्यकेनाहं गृहे नीता । पुत्रीवाऽहं वर्धिता, तुभ्यं चाभीष्टत्वाद्दत्ता । ततः पुत्रः पितुरने पत्नीस्वरूपं प्राह । ततो मिथो विमृष्टं रहसि पूर्वमेको द्विजः चण्डाली[तः]जातः, यतः
कैवर्तीगर्भसंभूतो, व्यासो नाम महामुनिः तपसा ब्राह्मणो जात-स्तस्माजातिरकारणम् ॥१॥ मण्डूकागर्भसंभृतो, माण्डवश्च महामुनिः । तपसा० ब्राह्मणो जात-स्तस्माजातिरकारणम् ॥२॥ शशकीगर्भसंभूतो, ऋष्यशृङ्गो महामुनिः । तपसा.... ... ...
..... ... ... ... ॥३॥ • उर्वशीगर्भसंभूतो, वशिष्ठस्तु महामुनिः । तपसा०...
'... .... ... ... ... ... .... ॥४॥ तस्मादाचार एवं प्रधानः, यतः
आचारः कुलमाख्याति, देशमाख्याति भाषितम् ।
संभ्रमः स्नेहमाख्याति, वपुराख्याति भोजनम् ॥५॥ 15 ततो न केनापि स्वपूर्वजातसम्बन्धः प्रोक्तः कस्याग्रे ( कस्यचिदने) प्रवचनीयः ।
इति आचारविषये द्विजपत्नीकथा ॥५२॥
[53] उचितवैद्यविषये कथा ॥ यो यादृशो भवति तस्य तादृश उपदेशो दातव्यस्तथाहि-लक्ष्मीपुरे चन्द्रभूपो राज्यं कुरुते । स च दयावान एकदा स्वकर्मकर एक इन्धनानि समानयत् । एकाक्षिसमुत्पन्नफुल्लको दृष्टो 20 राज्ञा । करुणया राज्ञा(तेन)पञ्चशतवैद्यस्याग्रे प्रोक्तम्-अस्य निःस्वस्य नेत्रात्फुल्लकमपसारय । तेन
वैद्येन तदा जीर्णकुटीरतीब्रस्थजीर्णतृणान्यादाय प्रज्वाल्य च तद्भस्मना तस्य नि निःस्वस्य नेत्रमञ्जितम् । द्वित्रिवारे तस्मिन्नञ्जिते नेत्रात्फुल्लकं गतम् । अन्येद्युभूपो निजं नेत्रं कृत्रिमफुल्लयुक्तं कृत्वा वैद्यस्याने प्राह-मम नेत्रोत्पन्नं फुल्लकमपसारय । वैद्यन जात्यमुक्ताफलरत्नादिदीनि भस्म
कृते आनायिते । राजाऽवम्-निनिःस्वस्य तृणभस्मना फुल्लकं गतं मम त्वेवमौषधं किं क्रियते । 25 भो वैद्य ! तस्य नि[निःस्वस्य नेत्रफुल्लकाऽपसारायान्यदञ्जनं कृतं, मम च बहुमूल्यमौषधं
कथम् ? । वैधेनोक्तम्-राजन् त्वं भूपस्तेन बहुमूल्यमौषधं नि[निःस्वस्य तु दरिद्रत्वात्तादृशमेव युक्तम् । ततो राजा यथास्थितनेत्रं कृत्वा प्राह-वयं त्वया कृतं, त्वमुचितज्ञोऽसि । ततो वैद्यो वर्यभूषणादिना मानितः ।। इति उचितवैद्यविषये कथा ॥५३।।
"Aho Shrutgyanam"