________________
प्रथमोऽधिकारः
[51] सहसाकृतकार्योपरि - कृष्णकोलयोः कथा |
वृद्धपुरे विप्रो मुकुन्दोऽभूत् । तस्य कृष्णाह्नः पुत्रः । तस्य गृहमध्ये एकः सदा कोलो मृत्तिकां कर्षयति स्म । एकदा मुकुन्देन धूलिमध्ये रूप्यटङ्कको ददृशे । तेन स गृहीतश्व । द्वितीयेऽह्नि पुनः रूप्यदङ्ककः प्राप्तः । एवं सप्तदिनेषु सप्त रूप्यटङ्ककाः प्राप्ताः । एकदा पितरि ग्रामे गते कृष्णो दध्यौ बिलं स्वनित्वा सर्वे रूप्यटङ्कका महीष्यन्ते यदि तदा वरं भूयसी श्रीर्भवति । मद्गृहे आवास कारयामि । ततो बिले खनिते कोलो निर्गतः । हतश्च तेन निर्दयेन । अग्रतो बिलं बहु खनितं किमपि न निर्गच्छति । इतः पिता प्रामादागात् पुत्रः पृष्टः किमिदमारब्धं त्वया ? पुत्रोऽवग्रूप्यदृङ्कार्थं । पिताऽवग्-मुधाऽयं कोलस्त्वया हतः । कोलानां विवराणि भूमौ बहुप्रकाराणि भवन्ति । को जानाति कस्मिन् विवरे गच्छति कस्मि[कस्मा]न्निर्गच्छति तेनास्य हननाच्छीरायान्ती स्वगृहे त्वया निषिद्धा । ततः पुत्रो दुःखं करोति । तदा पिताऽवग्-" यस्य यद्भावि तद्भवति" यतः - 10 यस्य यादृस्वभावः स्यात् जायते सोऽन्यथा नहि । वक्रं पुच्छं पुनः केन, सरलीक्रियते क्वचित् ? || १|| इति | सहसा कार्यं कृतमनर्थाय भवति, यतः-
सहसा विदधीत न क्रिया-मविवेकः परमापदां पदम् । वृणुते हि विमृश्यकारिणं, गुणलब्धाः स्वयमेव सम्पदः ||२||
ततो द्वावप्यलब्धविभवौ दुःखिनौ जातौ चिरम् ||
इति सहसाकृतकार्योपरि-कृष्णकोलयोः कथा ॥५१॥ [52] आचारविषये द्विजपत्नीकथा ||
[ २५
"Aho Shrutgyanam"
5
15
कस्मिंश्चित्पुरे मद्नस्य द्विजस्य गौरी प्रिया, श्रीधरः पुत्रोऽभूत् । स क्रमात्तरुणो भूत्वा विद्यां भणितुं विदेशेऽगच्छत् । श्रीपुरे गदाधरविप्रस्यान्ते [न्तिके] चतुर्द्दश विद्या पपाठ । तं तादृशं ज्ञं 20 ज्ञात्वा स्वां पुत्रीं तस्मै बहुश्रीयुतां ददौ । स तया पल्या युक् बहुश्रीकस्तं गुरुमुत्कलाप्य क्रमात्स्वपितुः पार्श्वे सोत्सवमगात् । अन्येद्युस्तस्य पुत्रोऽभूत्, जन्मोत्सवोऽभूत् वर्धमान इति नाम दत्तं तस्य । ससमानवयोभिः क्रीडति सदा । एकदा तस्य गृहांगणे राजपुत्रवणिजादयो बालाः क्रीडितुं लग्नाः । वणिक्कुमारो धूल्या हट्टं कृत्वा क्रयाणकानि विक्रेतुं लग्नः । द्विजपुत्रो मृतां महिष स्वधया प्रकल्प्य कर्षितुं लग्नः । इत्यादि बहून् क्रीडापरान् मदनो दृष्ट्रा दध्यौ -- अयं पुत्रः ईदृशीं 25 क्रीडां किं कुरुते । चकितः सन् मदनः श्रीधरं पप्रच्छ- किं तव पत्नी ढेढपुत्री सम्यकू त्वया प्र[]च्छनीया । ततस्तेन रहसि पत्नी पृष्टा - त्वं तु मया परिणीता, पुत्रोऽपि त्वयि जातः त्वया समं मयाऽनेकशो भुक्तम्, सत्यं जल्प, कस्य त्वं पुत्री ? तयोक्तम् अहं पूर्वं चाण्डालकुले उत्पन्ना, अहं पञ्चवार्षिक [ की] जाता । तावन्मतपिता सकुटुम्बो विदेशं प्रति चलितः । क्रमान्मम मातापितरौ मृतौ । अहमेकाकिनी तत्र स्थिता । अहं दुःखिता सती अग्रतो गत्वा कस्मिंश्चिदेवकुले स्थिता ।
30
इतस्तत्र गदाधर द्विजः समागात्, तेन साहं पृष्टा त्वं का ? मयोक्तम् - अहं द्विजपुत्री ।