________________
10
२४ ]
प्रबन्धपञ्चशती एतदाकर्ण्य राज्ञा तस्यैव स्वपुत्री दत्ता । क्रमाद् गुरुभिर्जातं शिष्यस्वरूपं, ततो गुरुभिरिति ज्ञापितम्
संसारे हयविहिणा, महिलारूवेण मंडिअं कूडं ।
बझंति जाणमाणा, अयाणमाणा न बज्झंति ॥२॥ 5 तेन गुरुपुरो ज्ञापितम्
तावन्महत्वं पाण्डित्यं, कुलीनत्वं विवेकिता ।
यावत् ज्वलति नाङ्गेषु, हतः पञ्चेषुपावकः ॥३॥ गुरुप्रोक्तमवगणय्य स्थितस्तत्र तदा गुरुणा ध्यातम्
नान्यः कुतनयादाधि-व्याधिर्नान्यः क्षयाऽऽमयात् ।
नान्यः सेवकतो दुःखी, नान्यः कामुकतोऽन्धलः ॥४॥ कालेन तस्य सर्वा विद्या विस्मृता, मूर्यो बभूव, यतः
नारीसक्तो जनस्तातं, पितरं भ्रातरं तथा ।
विद्यां न विन्दते लक्ष्मी-वानिव क्वचिदेव तु ॥५॥ एवं केचिनारीवशीकृता कृत्याकृत्ये न जानन्ति ।। इति प्रभाचन्द्रकथा ॥४९॥
[50 ] लक्षणादिकूटकौतुककलाकथा । पद्मपुरे लक्ष्मोधरो राजाऽऽप्सीत् । तस्यामात्या बहवः। राजा तु याचकेभ्यो भूरिदानं दत्ते । मन्त्रीश्वरा जगुः-एवं दानात्कोशो रिक्तो भविष्यति ।
यथा तथा प्रजाः सर्वाः, प्रपीड्य विभवश्विरम् ।
मेलितः किं मुधेदानीं व्ययतेऽर्थिप्रदानतः ॥१॥ 20
ततो राजा जगौ-यो मां विशिष्टश्लोककरणेन रञ्जयिष्यति तस्मै दानं दास्ये, नान्यस्मै । ततोऽने के बुधा वर्यकाव्यादि कृत्वा राज्ञः पुरः कथयन्ति । परं राज्ञः [राजा] शिरो न धूनयति । इतः कोऽपि कविरेवंविधं श्लोकं कृत्वा प्रभाते राज्ञः पुरः प्राह
उत्तिष्ठ नृपशाईल ! मुखं प्रक्षालयस्व टः ।
यदा भाषयते (१) कुर्क-स्तदा रात्रिर्विभावरी ॥२॥ 25 तदा राज्ञोक्तं-'प्रक्षालयस्व ट' अत्र त्वया टो निरर्थः कृतः। कविनोक्तं-कुकटशब्दस्य
यो 'टो विद्यते स 'मुखं प्रक्षालयस्व ट' इत्यत्र टः क्षिप्तः । एवंविधो लक्षणकलां तस्य दृष्ट्वा राजा जहर्ष, भूरिदानं तस्मै ददौ ॥ इति लक्षणादिकूटकौतुककलाकथा ॥५०॥
"Aho Shrutgyanam"