________________
३.]
प्रबन्धपञ्चशती [58 ] अतिथिसंविभागवते सांतलकौटुम्बकादि कथा । 'वीरपुरे धीरस्य कौटुम्बिकस्य मदनाला पत्नी बभूव । क्रमात्तयोः सप्त पुत्रा बभूवुः । नामान्यमूनि तथाहि
। चन्द्र-भीम-सोम-देवदत्त-धनदत्त-मदन-सान्तला इति सप्त परिणायिताः ।
एकदा सप्तसु पुत्रेषु हलानि खेटयत्सु सप्तापि वध्वः कौटुम्बिकेन निन्दनार्थ प्रेषिताः । तदा सप्तापि वध्वो निन्दनार्थ क्षेत्रं प्रतिचेलुः । मेघे वर्षति सप्तापि वध्वो वटवृक्षस्याधः स्थिता मिथो वार्ता कर्नु लग्नाः ।
इतः कौटुम्बिकोऽपि क्षेत्रं प्रति चलितो मार्गेऽब्दे वर्षति छन्नं वटतरोः समीपे वधूजल्पितं । श्रोतुं स्थितः वृद्धा वधूः प्राह-मम क्षीरं रोचतेतराम् । 10
द्वितीयाऽवग-क्षिप्रचटिकाम् । तृतीया चाह-सालिदालिघृता[दीन] रोचते । चतुर्थी-ओदनं मुद्गघृतयुतम् । पञ्चमी-पक्वान्नम् ।
षष्ठी-मोदकान् । 15. सप्तमी जगौ-यदि भवति किमपि तदाऽर्थिभ्यो दत्त्वा जिम्यते यादृशमन्नादि यदा
चटति तदा तादृशेन निर्वाहः क्रियते । उच्चाटो नानीयते च सन्तोष एव कर्त्तव्यः । किं करोति श्वभूस्वसुश्विसुर]रादिकः । कम एव प्रधानं वीक्ष्यते ।
__ एतत्तासां प्रोक्तं श्रुत्वा श्वशुरो गृहे पश्चात्समेत्य भार्यायाः पुरः ( कौटुम्बिकः) प्राहषण्णां वधूनां क्षीरादि देयं, सप्तम्याश्चोद्धरितं कदन्नं दातव्यं, ततस्तया तथा कृतं यथा सप्तमी 20. दुःखिनी जाता कान्तस्याने प्राह-मह्यं श्वश्रुः कदन्नं दत्तेऽहं मरिष्यामि ।
सान्तलोऽवग-भो प्रिये ! त्वया दुःखं न कार्यम् , अहं दिशं [विदेश] गत्वा तथा करिष्ये यथा तवेप्सितं भविष्यति । ततो मातुरहं कदाचिद्वहुकालात्तव मिलामि तदा त्वयाऽहमुपलक्ष्यसे [क्षिष्ये] नवेति मातरं पप्रच्छ ।
माताऽवग-यो गर्भ नवमासान व्यूढः स कथं नोपलक्ष्यते । ततो रात्रौ प्रियापार्श्वेऽवग् 25 स त्वयाऽयं कञ्चको नोत्तायः ।
एवं प्रोक्त्वा प्रोच्य] सान्तलो विदेशं प्रति चचाल, सूर्यपुरोपान्ते सान्तलः स्थितो विश्रामार्थम् ।
इतः तस्मिन् पुरे नृपे पुत्ररहिते मृते पञ्चदिव्यैरभिमन्त्रितैः सान्तलस्य राज्यं तत्रत्यमभून् । 'सहस्रमल्ल' इति स्वं नाम कथयामास राजा । क्रमाच्चतुद्देश प्रिया अभूवन् । मातापित्रोः 30 सहोदराणां नामापि चित्ताद् विस्मृतः व्यस्मरत् ] ।
"Aho Shrutgyanam"