________________
२२ ]
प्रबन्धपञ्चशती
अहं वेभि शुको वेत्ति, संजयो वेति वा ( नवा)।
भारतं भारती वेत्ति, देवो जानाति केशवः ॥१॥ दक्षिणसमुद्रात् १५४ योजनैरुत्तरस्यां दिशि अयोध्यातः कुम्भकारो जैनो गिरिनारगिरी यात्रार्थ गतः, तत्रस्थैः कृष्णद्वी द्वै]पायनशिष्यैरुक्तम् -अस्माकं गुरुः सर्व वेत्ति, कुम्भकृद्दध्यावेवं सर्वनं विना न कोऽपि वेत्ति, ततः स कुम्भकारः कृष्णद्वी[वै]पायनपार्श्वे गतः सन्माह-भारते भवत्कृते कथायाः पतिः कः ? कृष्णद्वी]पायनोऽवग युधिष्ठिरादयः कथेशाः, द्रौपद्याः समं तेषां का सम्बन्धो भवति, कानि नात्रकानि भवन्ति ततो व्यासोऽवग न जाने, ततः कुम्भकारोऽवग
पतिस्वसुश्विशु]रताज्येष्ठे पतिदेवरताऽनुजे ।
मध्यमेषु च पाश्चाल्या-स्त्रितयं त्रितयं त्रिषु ॥२॥ 10
तत उत्थाय द्वी[वै]पायनः कृताञ्जलिर्जगौ
त्वमेव विदुरो धीमान् , त्वमेव धमिशेखरः । त्वमेव वन्दनीयोऽसि, त्वमेवासि कलानिधिः ॥३॥ अहं मूर्योऽस्मि मूढोऽस्मि, गर्व वान् पापवान् पुनः । कृतघ्नोऽस्मि निष्कलोऽस्मि, निर्गुणोऽस्मि च कुम्भकुन् [ ] ॥४॥ इति गर्वोपरिकृष्णद्वी[वै]पायनकथा ॥४॥
[46] दाने धनकथा । श्रीपुरे धनश्रेष्टी महेभ्यः, तस्य बहवः स्वजनाः, तस्य भार्या धनवती, पुत्रः कमला, तस्य पत्नी कमला, धने पत्नीयुते स्वर्ग गते कमल क्रमास्वल्पधनोऽभूत्, कमलस्तु गुणवान् भार्या च
पतिहितकारिणी, प्राघूर्णकाः बहवः समायान्ति । कमला सर्वेषां प्राघूर्णकानां पत्यानीतानां भक्ति 20 करोति । अन्यदा श्रेष्ठी कृशशरीरां पत्नी वीक्ष्य प्राहेति
कि दीससि पिए संपह, दुबला सुगुणावहे ।
जं ते अत्थि अणूंरडू, तं पूरेमि कहेह ॥१॥ भार्याऽवग-घरि आवइ परि मग्गिद्विअ, पिय तुम्ह नामगुणेहिं ।
तिणि कारणि हूं दूबली, झूरउं रातिदीएहिं ॥२॥ 25 ततो विशेषाद्धनानुसारेण दानं ददतो मुक्तियोग्यं पुण्यमर्जयतस्तौ ।
इत्यादिदाने धनकथा ॥४६॥
15
"Aho Shrutgyanam"