________________
प्रथमोऽधिकारः तमरिं दृष्ट्वाऽकस्मात् शतानीको मृतः। पत्युसृत्युकृत्यं कृत्वा मृगावत्या धीमत्या ज्ञापितं मम भर्ना मृतः । अहं त्वा वान्छामि । परं पुत्रस्य लघोडेढं वनं कारय' पश्चादहं त्वामङ्गीकुर्वे । यदि बलात्कारं करोषि तदात्महत्यां करोमि । ततो राज्ञा वप्रो दृढः कारितः धनधान्यादिभिः पूरितश्च । ततो नायाति सा चण्डपार्श्व, ततः योद्धं लग्नः परं दुर्ग लातुं न शक्नोति । इतः श्रीवीरस्तत्रागात्, राजा तत्र गतः, मृगावत्यपि तत्रागाव नन्तुं प्रभुम् । उपदेशः श्रुतो द्वाभ्याम् । मृगावती 5 दीक्षां याचते तदा चण्डो मोहं त्यक्त्वा मृगावती क्षमयामास । मृगावती दीक्षामलात् । चण्डप्रद्योतनः प्रभु महासती च नत्वा स्वस्थानमगात् ॥ इति बुद्धिविषये मृगावतीकथा ॥४३॥
[44] गर्वोपरिश्रीधराचार्यकथा । एकदा श्रीधराचार्यो नितवास निकत्रिशतिकादिगणितग्रन्थान् कृत्वा तेषां प्रान्ते स्वनाम लिखित्वा गर्व दधान एक काव्यं चकारेति
10 उत्तरतः सुरनिलयं, दक्षिणतो मलयपर्वतं यावत् ।
प्रागपरोदधिमध्ये, नो गणका श्रीधरादन्यः ॥१॥ तस्य कवेः 'सरस्वतीपुत्रेति बिरुदं नाम दधानस्य सरस्वती दध्यौ, अहो एष विज्ञोऽपि मूखः, यत एवं गर्व धत्ते । ततो ब्राह्मी जरतीस्त्री [जरत्स्त्री ] रूपं कृत्वा श्रीधराचार्यपाधै समेत्येदं प्राह-अहं लेखक न जाने त्वं तु सर्व जानासि तेनेदं कथय एकेन द्विकेन किं भवति, 15 श्रीधरोऽवग-त्रयो भवन्ति, एवं न प्रोच्यते, सम्यग् कथय, ततः श्रीधरः प्राह-द्वादश भवन्ति, एवमपि न भवति । श्रीधरोऽवग- भो जरति ! त्वं प्रथिलाऽसि एतदपि न जानासि, मदुक्तं क्वचित् कूटं न भवति, नियोक्तम् एकविंशतिः, अताना वामाङ्गत्वाव । ततः श्रीधरो धूनितशिराः प्राह-मातः ! का त्वं, तयोक्तमहं कास्मी[श्मीर देशवासिन्यस्मि, तव गर्व स्फेटयितुमत्राऽगां । श्रीधरोऽवर को गर्वो मया कृतः, तयोक्तम्-"उत्तरतः सुरनिलयेति" श्लोककरणमेव 20 गर्वस्तव, श्रीधरोऽवग-मातस्त्वं स्वरूपं प्रकटय, मां कथं विप्रतारयसि, ततो ब्राह्मथा निज रूपं . प्रकटितं । वाग्देवीरूपं दृष्ट्वा श्रीधर उत्थाय तस्याः पादयोः पतित्वाऽवग्-मातरहं मुग्धोऽस्मि, यत एवं मया गर्वः कृतः। तयोक्तं-पुत्र ! त्वयाऽतः परं गर्वो न कार्यः, गर्वेण जीवा दुःखिनः स्युरिह परत्र च, यतःज्ञानं मदद पहरं माद्यति यस्तेन तस्य को वैद्यः ।
23 अमृतं यस्य विषायति तस्य चिकित्सा कथं क्रियते ॥२॥ विद्ययैव मदो येषां, कार्पण्यं विभवे सति ।
तेषां देवाभिभूतानां, सलिलादग्निरुत्थितः ॥३॥ एवं ब्राह्मीवचः श्रुत्वा श्रीधरो गर्व तत्याज ॥ इति गर्वोपरिश्रीधराचार्यकथा ॥४४॥
_[ 45 ] गर्वोपरि कृष्णद्वी[वै]पायन कथा । महाभारतान्ते श्रीकृष्णद्वी [वै]पायनव्यासेनाभिमानिना श्लोक ईदृशोऽसि
"Aho Shrutgyanam"