________________
२० ]
प्रबन्धपश्चशती लोकः पृच्छति मे वार्ता, "शरीरे कुशलं तव" । कृतः कुशलमस्माक-मायुर्याति दिने दिने ॥१॥
इत्यनित्यतायां सम्बन्धः ॥४१॥
[ 42 ] कूटतुलाधर्जितविषये श्रेष्ठिकथा । कस्मिन् [ कस्मिंश्चित् ] पुरे श्रेष्ठी कूटमानतुलादिभिः कूटं व्यवहरति । एकपुष्करद्विपुष्कर-त्रिपुष्कर-चतुष्पुष्कर-पञ्चपुष्करेत्यादीनि मानतुलानां नामानि ददौ । अधिकं गृह्णाति, स्तोक दत्ते इत्येवं कुर्वतो व्यवसायात मिलितं धनं वर्षप्रान्तेऽग्निना दह्यतेऽथवा स्तेनैगृह्यते राज्ञा वा । एकदा लघुपुत्रवध्वा कूटादिव्यवहारं दृष्ट्वा प्रोक्तं-कूटव्यवहारे श्रीर्यात्येव । ततो
वध्वा स्वर्णमयं गोलकं कारयित्वा जले क्षेपितः । पुनः स एव मारिसकैरब्धिमध्यात् कर्षितमी10 नहृदयात्प्राप्यसेरभ्रान्त्या दत्तः। ततो वध्वोक्तं-भो श्वसुर ! शुद्धमार्गेण व्यवसायं कुर्वतः एवं गृहानिष्काशितापि श्रीः समेति स्वयम् , ततः शुद्धं व्यवसायं कुर्षतस्तस्य गृहे स्थिरा भीर्जाता ।।
इति कूटतुलाधर्जितविषये श्रेष्ठिकथा ॥४२॥
[ 43 ] बुद्धिविषये मृगावतीकथा । कौशाम्ब्यां शतानीको भूपः, तस्य पत्नी मृगावती चेटकभूपपुश्यभूत्, अन्यदा राजा 15 सभास्थो दूतमप्राक्षीत् , मम राज्ये यादृशं विद्यते तादृक्कस्यचिदन्यस्य विद्यते न वा ! दूतोऽवग
चित्रसभा वर्या नास्ति । ततो राज्ञा चित्रसभा कारयितुमारब्धा, चित्रकृन्मुख्यः सोमश्चित्रकृत् चित्रशाला चित्रयति । सोमोऽन्यदा मृगावत्याः पदाङ्गुष्ठं दृष्ट्वा मृगावत्या रूपं चित्रयति स्म, परं तस्या गुह्ये कृष्णो बिन्दुः पुनः पुनरपसार्यमाणः पपात । ततो राज्ञा राज्या रूपं चित्रलिखितं
कृष्णबिन्दुं गुह्यस्थं च वीक्ष्य दध्यौ । अनेन चित्रकृता किं मम पत्नी समग्रा दृष्टा ? ततो राज्ञा सोमो 20 वधायादिष्टः । तदाऽन्ये चित्रकारा जगुः, असौ न हन्यते अस्य दैवतवरोऽस्ति, तथाहि-साकेतनपुरे
सुरप्रियो यनोऽभूत् । स च प्रतिवर्ष चिच्यते, चित्रकरं च हन्ति, कोऽपि न चित्रयति यदा तदा पुरं हन्ति । ततो राज्ञा चित्रकराणां वारकः कृतः। चित्रलेखने यस्य नाम घटमध्याव निर्याति स चित्रयति यक्षम् । एवं प्रतिवर्ष क्रियमाणे एकदा एकस्या स्थविर्याः [स्थविरायाः] एक
एव पुत्रस्तस्य वारकः समागात् , तदा माता रौति, तदा तत्र सोमश्चित्रकरः समागात्, ज्ञातं 25 तस्याः पुत्रस्य वारकागमनं, जगौ सोमः, मातस्त्वं मा रोदी:, तव पुत्रं रमिष्यामि । ततः षष्ठं
कृत्वा शुचीभूय मुखकोशं पिधाय यक्षं चित्रयितुं लग्नः सोमः । यक्षस्तुष्टः जगौ-वरं याचस्व । चित्रकृतोक्तम्-अतः परं त्वया जीवहिंसा न कार्या । मम च देहांशे दृष्टे सम्पूर्णदेह चित्रकला. करणशक्ति देहि, तेन तुष्टेन यक्षेण तथाकृतं, सोऽत्रागतोऽसौ सोमः । ततो राज्ञा (तस्या) अङ्गुठं
दर्शयित्वा दास्या रूपं चित्रयामास । ततो राजा चमत्कृतः । पुनस्तस्य छिन्नसंडको हस्तः कारितो 30 राना। ततः स चित्रकृत मृगावत्या रूपं पट्टे लिखित्वा चण्डप्रद्योतनायादर्शयत् । चण्डप्रद्योतनः
शतानीकपार्धात् मृगाबतीं याचते स्म । स न दत्ते । प्रद्योतनस्तत्रागात् । दुर्ग वेष्टयामास ! तदा
"Aho Shrutgyanam"