________________
प्रथमोऽधिकारः
[ १७ वीतरागं स्मरन् योगी, वीतरागत्वमश्नुते । सरागं ध्यायतस्तस्य, सरागत्वं तु निश्चितम् ॥४॥ येन येन हि भावेन, युज्यते यन्त्रवाहकः । तेन तन्मयतां याति, विश्वरूपो मणी यथा ॥५॥ इलिका भ्रमरीध्यानात् , भ्रमरी जायते यथा ।
तथा ध्यानानुरूपः स्यात् , जीवोऽशुभशुभात्मवान् ॥६॥ अतोऽस्य मरुस्थलं वर्णयतो रोगो गतः । ततो वैद्यो मानितः । यतः
अलंकरोति हि जरा, राजामात्यभिषग्यतीन् । विडम्बयति पण्यस्त्री-मल्लगायन[क]सेवकान् ॥७॥
इति ध्याने वैद्यकथा ॥३३॥ [ 34 ] नीचानीचविचारविषयिकी लौकिकी कथा । जन्मना तु ध्रुवं वर्य-मवर्य जायते कुलम् ।
प्रायो भवति मानां, क्रियया विप्रवज्जने ॥१॥ तथाहि-कस्यचिद्विप्रस्य विज्ञस्य यजनयाजनाध्ययनाध्यापनादिषट्कमकारकस्य गृहे एकस्तपस्वी स्वं धौतिक मुक्त्वा गतस्तीर्थयात्रायै, स तपस्वी देवदत्तासः तपःप्रभावाद्वायुष्कः सन् 15 तीर्थ भ्रमति स्म । इतः स द्विजो मृत्युसमये स्वं पुत्रं प्रति प्राह-इदं धौतिकं तपस्विनो देवदत्तस्यास्ति यदा मार्गयति तदाऽर्पणीयं त्वया। पितरि मृते क्रमाद् द्विजपुत्रो निर्वाहाभावात् कुम्भकारकर्म करोति । इतः स तपस्वी तत्रागतः स्वस्य धौतिकस्यार्थ गृहं पृच्छन् (जज्ञो)। परमस्य गृहे कुम्भकारकर्म दृष्ट्वा धौतिक तथैव मुक्त्वाऽन्यत्र तीर्थयात्रायै गतः । क्रमाव स द्विजः कुम्भकारकम्म मुक्त्वा भारवाहोऽभूत् । पुनस्तत्रागतः स्वं धौतिक पूर्ववत्तत्र दृष्ट्वा तथैव मुक्त्वा 20 गतः । स भारवाहः परलोकं गच्छन् स्वपुत्राय परम्परागतं धौतिकसम्बन्धं जगौ । ततस्तस्मिन् तत्पुत्रो राजसेवकोऽभूत् । तत्रापि पूर्ववत्तत्रागतस्तस्य गृहेऽन्यत्कर्म दृष्ट्वा यात्रायै गतः, स सेवको मृतः, तस्य पुत्रो प्रामहट्टकोऽभूत् । पुनः स तपस्वी तत्रागात् । तस्य गृहे अनीदृशं कर्म दृष्ट्वा धौतिक सम्भाल्य तथैव मुक्त्वा गतः । ततो ग्रामहट्टको वैदिकद्विजयोगात् चतुर्वेदी द्विजो जातः । इतो भ्रान्त्वा तपस्वी तत्रागात् पूर्वक्रियां वैदिकी यजनयाजनादिकां दृष्ट्वा हृष्टोऽभूत् । 25 ततस्तेन द्विजेनोक्तंभो तपस्विन् !, भवता कथं हष्ट, तपस्यवग-यजनादिविद्राह्मणादारभ्य सर्व सम्बन्धं तस्याग्रे, ततः स तपस्वी स्वधौतिकं लात्वा जगौ-यादृशो योगस्ताटक पुमान् भवति । उत्तममध्यमजघन्यादिविचारो न क्रियते । ततः स तपस्वी स्वस्थानं ययौ ॥
इति नीचानीचादिविचारकथा लौकिकी ॥ ३४ ॥
"Aho Shrutgyanam"