________________
१६ ]
प्रबन्धपञ्चशती
10
[32] निष्कृपोपरि मरुस्थलीवर्णनम् ।
माता गंगासमं तीर्थ, पिता पुष्करमेव च । तीर्थं फलति कालेन, माता- तीर्थं पुनः पुनः ॥ १ ॥
इत्यादि ध्यात्वा मातापितरौ कावडिकायां स्थापयित्वा विप्रस्तीर्थानि करोति । तीर्थानि 5 कुर्वन् मरुस्थल्यां गच्छन् अधः प्रचुरसिकतायां हिण्डितुमशक्नुवन् जलं स्तोकं पिबन् मृगतृष्णिकां पश्यन् पदे पदे जलभ्रान्त्या धावन् खिन्नः सन् प्रथमं पितरं स्कन्धादुत्तारयामास । पिताऽवग् अहमक्षमस्तीर्थं [क], कथमुत्तारयसि ? पुत्रोऽवग् इयं तु मरुस्थली रुक्षा एवं मातरमपि स्कन्धादुत्तार्य स्वेच्छया चालीत | मातापितरौ पादचरिणौ पुत्रस्य पृष्ठौ [ पृष्ठतः ] दुःखेन चलतः ।। इत्यादि मरुस्थली वर्णनं निष्कृपोपरि ||३२||
[33] ध्याने [ विचारे ] वैद्यकथा |
यादृशं क्रियते चित्तं सदसद्वस्तुवर्णने । कवेरिव भवेताह, जनानां भावुकात्मनाम् ||१||
7
तथाहिइ - एकदा श्रीरामस्य सुबुद्धिनामा कविरभूत् स च श्रीरामकारितं पम्पासरः काव्यैर्नित्यं वर्णयति स्म । वैद्या बहवः श्रीरामस्य परिवारस्य रोगोत्पत्तौ चिकित्सा कुर्वन्ति 15 स्म । अन्यदा सुबुद्धिकवेः सरो वर्णयतस्तदध्यानाजलोदरं वद्धितं वैद्यो विचारविज्ञस्तस्य चिकित्सा कारयति बहुप्रकारैः परं गुणो न भवति, यतः ----
वैद्यस्तर्कविहीनो, निर्लज्जा कुलवधूती पीनः ।
कटके च प्राघूर्णको, मस्तकशूलानि चत्वारि ||२||
तत एकस्तत्र वैद्यो वृद्धो विचारज्ञः समागात् । राज्ञा तस्य रोगचिकित्सायै आदिष्टम् । 20 ततस्तेन वृद्धेन वैद्येन शरीरस्वरूपं विलोक्य शालिदालिघृतादिवर्य [भोजनं दत्तम् ] ददता तस्य तथा भोजनं कुर्वाणस्य वैद्येनेत्यादिष्टम्, मरुस्थलं वर्णय । तत एवं वर्णयति-
मृगतृष्णां सदा दर्श, दर्श तृषितवक्षसम् ।
ओष्ठ तालु गलादीनि, शुष्यन्ति स्म दिने दिने || ३ ||
इत्यादि वर्णयतस्तस्य रोगिणो जलोदररोगो गतः । श्रीरामेण पृष्ट-भो वैद्य ! मरुस्थल25 वर्णनेन कथमस्य रोगो ययौ ? वैद्योऽवम् पूर्वमनेन सरो जलभृतं भूरिशो वर्णितं तेन जलोदररोगोऽभूत् सरोध्यानात्, अधुना मरुस्थलवर्णनाद रोगो गतः 'यादृशं ध्यानं तादृशं मनः, नस्तादृग्वपुर्भवति', शुभाशुभाकर्णनाच्छरीरी प्रसन्नोऽप्रसन्नो भवति, यतः
यादृग्म•
"Aho Shrutgyanam"