________________
प्रथमोऽधिकारः
[ १५
अंकतः ९२,५९,२५,९२५ एकसामायिकलाभः ॥ इत्यादिधर्मशालानिष्पादनपुण्ये भीमसाधुकथा ॥२९॥
[30] धर्मदृढतोपरि आलिंगविप्रप्रासादकथा । आलिंगवसतीति नाम जातम् । पूर्वम् आलिंगाह्रो द्विजोऽभूत् । तेन श्रीधर्मघोषसूरिपाचे जिनप्रासादादिकरणे महत्पुण्यं भवति [तीतिश्रुतम् ] । एकदाऽसौ अवग-भगवन् ! लोका 5 पदन्ति सन्तानं विना स्वर्गो न भवति । गुरवः प्रोचुः-सन्तानं विनाऽपि स्वर्ग गच्छन्ति जनाः, सन्ताने सति कदाचित्स्वर्गः, पुण्यप्रभावादेव । सन्तानेन यदि स्वर्गः स्यात्तदा शुनीशुनादि [ श्वानादि ] जीवा बह्वपत्याः प्रथमं स्वर्ग गच्छन्ति [गच्छेयुः ] । असन्ताना अपि [च] मुक्ति गमिष्यन्ति [गच्छन्ति ], यतः--
बहूनि हि सहस्राणि, कुमारब्रह्मचारिणाम् ।
दिवं गतानि विप्राणा-मकृत्वा कुलसन्ततिम् ॥१॥ गुरुणोक्तं-श्रीऋषभदेवस्य यदि कृष्णवर्णा प्रतिमा कार्यते तदाऽनन्तं पुण्यं मुक्तिगमनयोग्यं भवति, परं सन्तानं न भवति । अग्रतः एतत् श्रुत्वा आलिंगो जगौ-भगवन्नहं श्रीऋषभदेवस्य कृष्णवर्णां प्रतिमा कारयिष्यामि, बहुपुण्यलाभात, सन्तानेन किं प्रयोजनम् ? सन्ताने सत्यपि रावण-श्रीकृष्ण-दुर्योधन-सुभौम-ब्रह्मदत्तचक्रवादयो बहवो नरकं गताः । अतोऽहं श्रीऋषभ- 15 देवप्रतिमां श्यामवर्णां कारयिष्यामि । ततस्तेन सन्तानाभावमवलम्ब्यादि[पि] श्रीऋषभदेवप्रतिमा श्यामवर्णा कारिता, स्थापिता स्वकारितप्रासादे, तत आलिंगेन तत्र प्रतिमा तां पूजयता मुक्तिगमनयोग्यं पुण्यमुपार्जितम् ॥ इति धर्मदृढ़ताविषये आलिंगविप्रप्रासादकथा ॥३०॥
[31] शनि-शिवसंवादसम्बन्धः । एकदा बहुषु ब्रह्मादिदेवेषु मिलितेषु स्वस्वोत्कर्ष जल्पत्सु शनिना प्रोक्तम्-अहं सर्वेषु 20 देवादिषु सुखदुःखे कर्तुं समर्थः । तदेश्वरेणोक्तम्-ज्ञास्यते तव कृतं सुखं दुःखं च । एवं प्रोच्य शम्भुः स्वगृहेऽभ्येत्य पार्वती प्रति स्वचेष्टितं जगौ । ततः शम्भुः स्वयं महिषरूपं, पार्वत्या महिषीरूपं कारयित्वा नगरखाले अशुचिमये स्थितौ, द्वावपि तृतीये दिने तस्मिन् व्यतीते ईश्वरपार्वत्यौ खालानिर्गत्यागतौ गृहे, तत ईश्वरः शनिपार्श्वे गत्वाऽवग-त्वदीया दशा गता कल्ये त्वया किमपि मम दुःखं न कृतम् । शनिर्जगौ त्वं कुशस्थाः [ कुत्राऽस्थाः ? ] ईश्वरः स्वस्थिति जगौ, ततः 25 शनिः प्राह--अहं किं स्कन्धे हन्मि जेतुं हृदये वा किन्तु ता तादृशीं धियं ददामि यया स्वयं दुःखे पतति त्वं त्वशुचिमये खाले स्थितः अतः परं किं दुःखम् अहं यदुःखादि जनेभ्यो ददामि तदपि कर्मणा प्रेरितः। ततः शम्भुर्जगौ सत्यमेव कर्मकृतं सुखं दुःखं जीवा लभन्ते--
यादृशं क्रियते चित्तं, देहिभिर्वर्णनादिषु ।
तादृशं कविवन्नूनं, जायते सन्ततं जने ॥१॥ इति लौकिककथा शनिशम्भुजम्पनविषया समाप्ता ॥३१॥
30
"Aho Shrutgyanam"