________________
प्रबन्धपश्चशती
[ 28 ] निर्ग्रन्थत्वे योगिकथा एकस्मात्पुरात् योगी चेल्लकयुतोऽचालीत्, अग्रे गच्छन् योगी चन्द्रपुरमार्ग पप्रच्छ, पुमान् प्राह-एको मार्गः सरलोऽदूरेऽस्ति परं चौरादिविघ्न विद्यते तत्र । द्वितीयो मार्गो विषमोऽस्ति
परं निरुपद्रवः । तदा योगी द्रव्यरहितः सोपद्रवेऽपि मार्गे गन्तु वाञ्छति चेल्लकस्तु नेच्छति 5 द्रव्यापहरणभयात्, मार्गे योगी ध्यौ असौ चेल्लकः कथं स्तेनक्लेशयुक्तमार्ग गन्तुं नेच्छति एवं
ध्यायन चेल्लकस्य वचोऽवगणय्य सोपद्रवमार्गे चलित तस्थौ इतश्चलके परान्तरे गते कस्मैचित्कार्याय झोलिकामध्ये रूप्यटककभृता वासनिकां वीक्ष्य दध्यौ। असौ चेल्लको धनगमनभयात् सोपद्रवमार्गे यान्तु नेहते ततो द्रव्यं न वरं तपस्विनः । एवं ध्यात्वा वासनिकां छन्नं कूपे
चिक्षेप । चेल्लकः पुरादागतो वासनिकामदृष्ट्वा प्राह-यस्मिन् मार्गे रोचते तत्र, गम्यताम् । ततो 10 द्वावपि निग्रन्थीभूतौ निर्भयौ सोपद्रवेऽपि मार्ग चेलतुः। ततो धनं तपस्विनां क्लेशभूतं मत्वा
निस्पृहौ श्वेताम्बरश्रीदमघोषसूरिपार्श्वे धर्म श्रुत्वा जैनी दीक्षां गृहीत्वा तपस्कुर्वाणौ स्वर्ग जग्मतुः क्रमान्मुक्ति गमिष्यतः ॥ इति निर्ग्रन्थत्वे योगिकथा ॥२८॥
[ 29 ] धर्मशालानिष्पादनपुण्ये भीमसाधुकथा । एकदा भीमसाधोरावासार्थं वर्यकाष्ठानि आगतानि । तदा दृष्टं भीमं दृष्ट्वा पत्नी प्राह15 गृहाणि वर्याणि वर्यतराणि भवे भवे कारितानि सन्ति, स्वर्विमानेऽपि स्थितं भूरिशः । परं
तत्सर्वमिहलोकार्थ, धर्मकार्ये यदि धर्मशालादिनिष्पत्तये काष्ठानि समायान्ति तदा वरं। भीमः प्राह-कुन धर्माय काष्ठानि स्थापयिष्यन्ते ? भार्या जगौ-धर्मशाला कार्यते तत्र बहुपुण्यं भवति यत:- वसही-सयणासण-भत्त-पाण-मेसज्ज-बत्थ-पत्ताइ ।
जइवि न पज्जत्तधणो थोवाविहु थोवयं देइ ॥१॥ 20 एवं विमृश्य स्तम्भतीर्थे आलिंगवसत्यां धर्मशाला कारिता पुण्यार्थ । तत्र १४०० टंकका
लग्ना । तदैकेन केनचित् पुंसा भीमसाधुपुरतः प्रोचे-द्रव्यं बहु व्ययितं, शाला तु पुरावहिरस्ति तत्र को धर्म कर्तुं समेष्यति ? ततो भीमोऽवग कदाचिदुत्सूरे सकाले वा कोऽपि कूपिकः पौटलिको विश्रामार्थं स्थित एकसामायिकं लास्यति तदा शालालग्नधनादनन्तं पुण्यं भविष्यति, यतः
सामाइयंमि उ कए, समणो इव सावओ हवइ जम्हा । 25
एएण कारणेणं, बहुसो सामाइअं कुज्जा ॥ १ ॥ सामाइअं कुणंतो, समभावं सावओ घडीदुग्गं । आउं सुरे सुबंधइ, इत्तीमित्ताई पलिआई ॥ २ ॥ बाणवइकोडीओ, लक्खा गुणसहि, सहसपणवीसा । नवसय पंचवीसाए, सतिहा अडभाग पलिअस्स ॥३॥
"Aho Shrutgyanam"