________________
प्रथमोऽधिकारः
आकारितः । पृष्टो राजा [राज्ञा] तदावदत स्वसम्बन्धं खलभक्षणदोहदलक्षणं च ततो राजा हृष्टस्तस्मै स्वकोशाच्चतुःकोटिमितं स्वर्ण दापयामास । तस्य पुण्यप्रभावात्ततो यावन्मात्रां प्रियं व्ययति तावन्मात्रा श्रीरकस्मान्मिलति, ततश्चिरं स्वां श्रियं सप्तसु क्षेत्रेषु व्ययन् कालक्रमान दानवितरणेन स्वर्ग श्रेष्ठी ययौ ॥ इति खलभक्षणे धनश्रेष्ठिकथा ।। २६ ॥
[27 ] नीचकुलोत्पन्नोप्युत्तमो भवतीति द्विजकथा । कस्मिन्पुरे [ कस्मिंश्चित्पुरे ] वेश्या क्रमाज्जरती जाता, तस्या एकः पुत्रोऽस्ति । तया चिन्तितं मया बहु पापं कृतं पुत्रजननात्, यदि हन्यते तदापि पापं भवति अतोऽहं गङ्गायां गत्वा पापं स्फेट यिष्यामि इति ध्यात्वा सा वेश्या पुत्रेण सह तत्र नद्यां गता मठवासिकारूपं कृत्वा स्थिता गंगायां स्नानादिपुण्यं पुत्रयुता करोति, द्विजमुखाद्वेदस्मृतिपुराणादि जज्ञे । स वेश्यापुत्रः । क्रमात्तत्र द्विजो मुकुन्दस्तं तादृशं विचक्षणं वेदविदुरं बहुदानपरं दृष्ट्वा दध्यौ अयं 10 वों वरोऽस्ति मम पुत्री विद्यते विवाहार्हा जाता यद्यस्मै दीयते तदा वरमस्य माता च धर्मशीला विद्यते, गृहे धनमप्यस्ति एवं विमृश्य द्विजेन पुत्री तस्मै मठवासनिकापुत्राय दत्ता । पुत्रं वधूयुतं परिणीतं स्कन्धयोरुभयतः कृत्वा नर्तयन्तीति प्राह
सोनईशाखा धनि कुलकोट्टई वेद वियारि । दे मति केरो बेटडो परिणइ दीक्षित कुआरि ॥१॥
15 ततस्तेन मुकुन्देन तस्याः पार्थात्तस्य वरस्य सम्बन्धं श्रुत्वा मौनं कृतं, बहुलक्ष्मीविद्यादि. गुणयुतत्वात् अतो न कुलादि वीक्ष्यते किन्त्वाचार एव यतः
कैवर्तीगर्भसंभूतो, व्यासो नाम महामुनिः । तपसा ब्राह्मणो जात-स्तस्माज्जातिरकारणम् ॥१॥ शुशुकीशशकी]गर्भसंभूतो, ऋष्यश्रृङ्गो महामुनिः । तपसा०
॥२॥ मण्डूक्रीगर्भसंभूतो, माण्डव्यश्च महामुनिः । तपसा० उर्वशीगर्भसंमूतो, वशिष्ठश्च महामुनिः । तपसा.
॥४॥ शीलं प्रधानं न कुलं प्रधानं, कुलेन किं शीलविवर्जितेन ।
बहवो जना नीचकुले प्रसूताः, स्वर्ग गताः शीलमुपेत्य वर्यम् ॥५॥ ततः सर्वेषु द्विजेषु वेदविदुरेषु मुख्योऽभूत् ।।
इति नीचकुलजातोऽप्युत्तमो भवतीति ब्राह्मणकथा ॥२७॥
25
"Aho Shrutgyanam"