________________
प्रबन्धपञ्चशती
जगौ, तया च तत्रागतयोद्धयोः महोक्षयोः पुरो रससम्बन्धस्वरूपं प्रोक्तम् , ततस्तौ राज्यसुखं मुक्त्वा रसलुब्धौ कैतवेन नागाजुन सेवेते स्म । रसं जिघृक्ष यत्र नागाजु नो जिमति तत्र तौ छन्नं रन्धनी पृच्छतः स्मेति । अत्र कः को जेमितुमायाति । तया नागार्जुनागमनमुक्तं ताभ्यामुक्तं च ततः त्वं नागार्जुनाय सलवणां रसवती कुर्याः सदा, यदा स क्षारां वदेत् तदा प्रोक्तव्य[ प्रवक्तव्य ]मस्मत्पुरः । बही श्रीरर्पिता ताभ्यां तस्याः । अन्येद्यः षण्मासान्ते तया प्रोक्तम्-अद्य तेन क्षारा रसवती प्रोक्ता ततस्ताभ्यां राजकुमाराभ्यां रसो मिलितो ज्ञातः, ताभ्यां पृच्छद्भ्यां वासुकिना प्रोक्तं कुशांकुरात् मरणय [मरणमस्य] नागार्जुनस्य ज्ञातमितो नागार्जुनः शुद्धरसेन कुतपो द्वौ भृत्वा दुकपर्वतस्य गुहायां रहसि चिक्षेप । ततः पर्वताद्वलमानो नागार्जुनो विमृशं[विमर्श] विना ताभ्यां क्षत्रियाभ्यां दर्भाकरेण जघ्ने तदा मृतः सः ।
अजाते चित्रलिखिते, मृते च मधुसूदनः ।
क्षत्रिये त्रिषु विश्वास-श्चतुर्थो नोपलभ्यते ॥४॥ तौ कुतुपौ देवतयाधिष्टितौ राजपुत्रयोः किमपि न चटितं हस्ते देवतया हतौ तौ पापिनौ नरकं गतौ एवं जीवाः पापपराः पापफलं सद्यो लभन्ते । रसस्तम्भनादत्रम्बावत्यास्तम्भननामा
भूत् । पार्श्वदेवस्यापि स्तम्भनमिति नाम ततः कालान्तरे सेढीनदीतटस्थं स्तम्भनपार्श्वनाथबिम्ब 15 स्तम्भनपुरे समायातं तच्चाद्यापि तत्र पूज्यते ।। इति नाग र्जुनसम्बन्धः ॥ २५ ।।
[ 26 ] खलभक्षणे धनश्रेष्ठिकथा । चन्द्रपुरे धनश्रेष्ठी, तस्य गृहे सुवर्णस्य चतस्रः कोटयः सन्ति । सदा मधुराहारवरवस्त्रपरिधापनदेवगुरुश्रीसंघपूजादिना सज्जनसन्मानादिना च कालं गमयति ।
एकदा राजा राजमार्गे गच्छन् तस्य सदनस्योपरि चतस्रो ध्वजपताका दृष्ट्वा मन्त्रि20 पार्चे पप्रच्छ, किमतो ध्वजपताका अन दृश्यन्ते, मन्त्रिणोक्तम-अस्य गृहे चतुःकोटिमितं स्वर्ण
मस्ति ततस्तद्गृहीतुकामो भूपोऽन्यत्र ग्रामान्तरे गतः, तदानीं श्रेष्टिनस्तदाकस्मात् खलभक्षणे वाम्छा जाता, ज्ञातं तेनेति एतया वाञ्छया राजा मम धनं ग्रहीष्यति अथवा चौराग्न्यादयो प्रहीष्यन्ति यतः--
दायादाः स्पृहयन्ति तस्करगणा मुष्णन्ति भूमीभुजो, गृहणन्तिच्छलमाकलय्य हुतभुग्भस्मीकरोति क्षणात् । अम्भः प्लावयति क्षितौ विनिहितं यक्षा हरन्ते हठात् ,
दुवृत्तास्त नया नयन्ति निधनं धिबधीनं धनम् ॥१॥ __एवं विमृश्य तेन श्रेष्ठी सर्वां प्रियं सप्तसु क्षेत्रेषु दीनदुस्थादिषु व्ययीचक्रे । राजा पश्चादागच्छन् ध्वजपताका अदृष्ट्वा लक्ष्मीव्ययसम्बन्धं च ज्ञात्वा चमत्कृतोऽभूत, चेतसि श्रेष्ठी (१) महोदरयोः, B. C.
25
"Aho Shrutgyanam"