________________
aratstuarte
[ ११
ततो बासुकिः शुक्र(रूप)परावृत्तिं कृत्वा तां सेवते । पुत्रः क्रमादभूव । तस्य नागार्जुनेति नामाभूत । स च जनकेन स्नेहेनाभ्येत्य सर्वासामौषधीनां फलानि मूलानि दलानि भोजितो । बलेन तस्य प्रभावात् सिद्धपुरुषो जातो, विख्यातः स च क्रमात्प्रतिष्ठानपुरे शातवाहन भूपस्य विद्यागुरुरभूत, यतः—
विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते ॥ २ ॥
स च नागार्जुनो व्योमगामिविद्यार्थं श्रीपादलिप्तानकपुरे श्रीपादलिप्ताचार्यान् सेवते स्म । ते चाचार्याः पादलिप्पौषधीबलेन वरेऽवसरे अष्टापद- समेत शिखर-शत्रुञ्जय-गिरिनारार्बुदाचलतीर्थस्थान जिनेन्द्रान् वन्दते स्म । तेषां पश्चादागतानां सूरीणां पादौ प्रक्षालयन्नागार्जुनो नासाबलेन सप्तोत्तरशतौषधीनां नामानि जज्ञौ, गुरूपदेशं विनापि ताभिरौषधीभिः पादलेपं कृत्वा 10 कुर्कुटपोत इवोत्पतन् निपतति भूमौ ततो व्रणजर्जरिताङ्गोऽन्यदा गुरुभिः पृष्टः किमेतदिति, ततस्तेन यथास्थिते प्रोक्ते तस्य च कौशल्येन चमत्कृतमानसा गुरवः शिरसि हस्तं दत्त्वा जगुः, महानुभाग[व] ? सम्पूर्णमाम्नायं गुरुदत्तं विना विद्या न स्फुरति नृणाम् । तेनोक्तम्--भगवन् ! प्रसद्य विद्याम्नायं देहि, ततो गुरुणोक्तम्- - यदि त्वं शत्रुञ्जयादिपञ्चतीर्थं नत्वात्सि तदाह अष्टोत्तरशत मौषधं कथयिष्ये ततस्तेन गुरूक्तं प्रतिपन्नं, ततो गुरवो जगुः -- षष्टितन्दुलोदकेन सर्वा 15 औषधीर्घर्षयत, ततस्तासां लेपेन पादलिप्तेन व्योमगामी भविष्यसि तं विद्याम्नायं प्राप्य नागार्जुनो व्योमगामी बभूव । ततः स प्राप्तखगविद्यो गुरुक्तं देवनतिं कृत्वैवात्ति । एकदा गुरुमुखात्स्वर्णरससिद्धिनिष्पत्तिं श्रुत्वा साधयितुं प्रवृत्तः रसो निष्पादितः परं स्थैर्यं न याति ततो गुरुपार्श्वे रसस्थैर्यस्वरूपं पप्रच्छ, गुरुभिरुक्तं - सप्रभावायाः श्रीपार्श्वप्रतिमायाः दृष्टौ साध्यमानो रसो लसल्लक्षणलक्षितया महासत्यास्त्रिया मृद्यमानः स्थिरो भविष्यति, एतत् श्रुत्वा नागार्जुनेन वासुकिः 20 स्वपिता ध्यातः प्रत्यक्षोऽभूत् । पृष्टं च तस्य पार्श्वनाथप्रतिमां दिव्यां कथय । वासुकिः प्राहपूर्व द्वारवत्यां कृष्णेन श्रीपार्श्वप्रतिमा सप्रभावा श्रीनेमिमुखात् श्रुत्वा सप्तवर्षी यावत्सूजिता द्वारवत्या दाहे समुद्रमध्ये देवेन मुक्ता । काले कान्तिपुरीवासिनो धनदत्तस्य समुद्रमध्ये यानं वलितं तत्र देवतयाभ्येत्योक्तम् - अत्राधस्तात् श्रीपार्श्वविम्बं समस्ति तच कञ्चसप्ततन्तुभिर्मुक्तैर्बहिः समेष्यति, तेन तथा कृते पार्श्वविम्बं निर्गतम् । कान्तिपुर्यामानीतम् यतः -
सुप्रभावमयं पार्श्व - नाथविम्बं मनोहरम् ।
कान्त्या पुरि जनैः पूज्य-मानमस्ति जिनालये || ३ ||
5
"Aho Shrutgyanam"
25
ततो नागार्जुनस्तत्र गत्वा बहुषु लोकेषु वन्दनार्थं दिवानिशमार्ग [च्छ]त्सु हर्तुं न शक्नोति । एकदाsari प्राप्य छलेन सा प्रतिमा तेन हृता सेढीनदीतटे रसबन्धनार्थं मण्डिता सातवाहनस्य भूपस्य चन्द्रलेखां महासत रसमर्द्दनार्थं तत्रानिनाय सा नागार्जुनेन भगिनीति कृत्वा स्थापिता 30 रमईयति स्म, तथा तदौषधीनां रसमर्द्दनकारणे पृष्ठे स्वर्णसिद्धिनिष्पत्तिहेतुं स तस्याः पुरो