________________
१८ ]
प्रबन्धपञ्चशती
[35 ] धर्मे भोजकथा । भोजराजा मरणसमये सर्वदर्शनिनो यथायोग्यं सन्मान्य मंत्रीशानाकार्य जगौ-'पुण्यं स्तोकं कृतं, पापं बहु तेन भवद्भिर्मम मरणादनु मम एको हस्तोऽअनलिप्तो, मनाक्चन्दनरसालिप्तो हस्तो द्वितीयो विधातव्यः । मन्त्री प्राह-कथमेवं प्रोच्यते ? भोजः प्राह-लोको मामेवंविध मत्त्वा [मत्वा] पुण्यं कुर्वन्ति । ततो भोजे मृते तथैव कृत्वा दाहाथ नीयमानं भोजं भूपं, लोका जगुः-कथं राज्ञो हस्तावीदृशौ कृतौ। ततो मन्त्रिंभिर्भूपोक्तं प्रोक्तं ततो बहवो जनाः पुण्ये कृतादरा बभूवुः ।। इति धर्मविषये भोजकथा ॥ ३५ ॥
[ 36 ] कृपणत्वे छलभूपकथा । एकदा झालोवाटिकाधिपच्छलराजा पूर्व दानं न ददौ । मरणसमये दानेच्छाऽभूत् । 10 पुत्राणामने प्राह-मम एतासां गवां, एतेषां घोटकानां एतेषां रथाना, [ एतासां च ] रमाणां
दानेच्छाऽस्ति । तदा मन्त्र्यादिभिः पुत्रैश्च विमृष्टं असौ सर्व राज्यं दास्यति, उत्तरमस्य दीयतेऽधुना-"मरणादनु सर्व दास्यते” । एवं जल्पिते [ जल्पिताः ] ते भूमुजा पुत्राः किमपि न ददुः, स च मृतः । एवं यत्स्वहस्तेन प्रथमं दीयते, तदेवात्मीयं, नान्यत् । मरणसमये हिता अपि पुत्रा
विघटन्ते ।। इति कृपणत्वे छलभूपकथा ॥३६॥ 15
[ 37 ] धर्मदृढतोपरि डीसावाल सारङ्गसम्बन्धः । वटप्रदे डीसावालः मन्त्री सारंगाह्रः, स च मिथ्यात्वं करोति । तस्य माता जैन धर्म करोति । एकदा माताऽवग् पुत्र! त्वं तु मिथ्यात्वं कुरुषे जिनधर्म तु न कुरुषे । जिनधर्म विना मुक्तिन भवति वीतरागासेवनत्वात् । मम तु मरणावसरोऽस्ति, त्वया मम मरणादनु जैनाः साधवो धर्म
शालायां वन्दनीयाः । सारंगो जगावेवमस्तु त्वयातिर्न कर्त्तव्या । मातरि मृतायां सारंगो जैनान 20 साधून न वन्दते मिथ्यात्वमेव करोति । माता स्वर्गता सती पुत्रस्नेहात्पुत्रबोधनार्थ रात्रावभ्येत्यैक
श्लोकं दत्त्वाऽवग-योऽस्य श्लोकस्यार्थं कथयति तस्य पार्श्वे त्वया धर्मः कार्यः । अहं तव माता । एवं प्रोच्य गतायां मातरि, सारंगः स्थाने स्थाने द्विजादीनां पार्श्वे श्लोकार्थ पप्रच्छ, परं न जज्ञौ । ततः सिद्धपुरे श्रीदेवसुन्दरसूरेस्तपागच्छाधिपस्य पार्श्वे श्लोकार्थ पप्रच्छ जज्ञौ
कामकान्तं व्रजै स्थानं, शिशिरा वापय भुते । 25
अत्रोदितं मतं ग्राझं, स्वया पुत्रान्तदर्शनात् ॥१॥ 'मतं जैनं शिवाय ते'; ततो जैन धर्म प्रपद्य सम्यक्त्वधारी श्रावोऽभूत् । शत्रुञ्जये गतः, तत्र श्रीऋषभं नत्वा स्तुतिमेवं चक्रे 'धन्यः स मासः, धन्यः स दिवसः, धन्यः स पक्षः' इत्यादिदेवैरपि चालिनः सन् न चालितः ॥ इति धर्मदृढताविषये डीसावालसारंगसम्बन्धः।
"Aho Shrutgyanam"