________________
10
चतुर्थोऽधिकार:
[ ३२९ गृहे शत्रुमपि प्राप्त विश्वस्तमकुतोभयम् ।
यो हन्यातस्य पापं स्यात् शतब्राह्मणघातम् ॥१॥ ततः सिंहेनाभयदानं दत्तं । प्रोक्तं स्वेच्छयात्र तिष्ठ । स्वरोचितं तृणं भक्षय । तव नामापि न गृहीष्यति । ततः स क्रमेलको मत्तः जातः । एकदा सिंहेनोक्तं-भो व्याघ्रादय ! भक्ष्य आनयत । तैः सर्व वनं विलोकितम् । कोऽपि श्वापदो न चटितः । ततस्तैः प्रोक्तं-स्वामिनयं क्रमेलको भक्ष्यते । सिंहोऽवग-मया त्वस्याभयदान दत्तमस्ति । ततस्ते प्रोचुः-स्वामिनो मृति गच्छतो यदि सेवकः स्वप्राणान् ददाति तदा वरं, अतोऽयं भक्ष्यते, परिवारो जीवति, विना सेवकान् राजाप्यराजा स्यात् । यतः
'न यज्वानोपि गच्छन्ति नैव गच्छन्ति योगिनः ।।
यां यान्ति प्रोज्झितप्राणाः स्वाम्यर्थ सेवकोत्तमाः ॥२॥ ___ ततस्तैाघ्रादिभिः क्षुद्रः सेवकैस्तथाकृतं तथा जल्पितं, यथा क्रमेलको व्याघ्रादिभिर्हतः। सिंहाथैः सर्वैः भक्षितः । यतः
बहवः पण्डिताः क्षुद्राः सर्वे मायोपजीविनः । कुयुः कृत्यमकत्यं वा उष्ट्र व्याघ्रादयो यथा ॥३॥ इति वैरिसेवने उष्ट्रमृत्युसम्बन्धः ॥५८९॥
16 [ 590 ] अथ हितवाक्ये कच्छपसम्बन्धः । मित्राणां हितकामानां यो वाक्यं नाभिनंदति ।
स कूर्म इव निर्बुद्धिः काष्ठाद् भ्रष्टो विनश्यति ॥१॥ तथाहि-एकस्मिन् जलाशये कंबुपोवकच्छपस्य संकटविकटौ पक्षिणी सुहृदौ जातौ । मिथःप्रीतिः त्रयाणां जाताः ! सायं स्वस्वस्थाने ययुः । एकदा मेघे अवर्षति सरः शोष गच्छत् 20 दृष्ट्वा संकटविकटौ कंबुग्रीवस्याग्रे प्रोचतुः-भवान् वृद्धोऽन्यत्र यातुंन शक्तोऽस्ति, ततः किं करिष्यते ? कच्छपः प्राह-आनीयतां काष्ठं प्रलंब, तस्मिन्काष्ठेऽमुपविशामि । युवाभ्यां काष्ठमुभयोः पार्श्व दन्तैधत्वोत्पाट्यान्यत्र जलाशये नेतव्यम् । ततोऽहं सखो भविष्यामि। यवां पक्षि गौ वत्र सरम्तीरे तिष्ठत । फलास्वादादि कुरुत । तौ प्रोचतुरेवं कुम्वतो आवयोस्त्वया मौनं कार्य, नो चेन्मार्गे त्वयि जल्पति लोका असदृशं दृष्ट्वोपद्रवं करिष्यन्ति ! कच्छपेन मानितोऽतो [मानिते 25 सति) काठमानीय तं तत्र स्थापयित्वा व्योम्नि चलितौ तौ सुहृदौ पक्षिणी तथा काष्ठारूढ़ कच्छपं कृत्वा यदा ज्योम्नि चेलतुः । यदा वेणापुरोपरि आगतौ तदा लोका काष्ठं तथाकारं दृष्ट्वा प्रोचुः
१. न यज्वानोऽपि गच्छन्ति, तां गति नैव योगिनः ।।
या यान्ति प्रोण्झितप्राणाः स्वाम्यर्थे सेवकोत्तमाः ॥ इत्यपि अयते ।
"Aho Shrutgyanam"