________________
३२८ ]
प्रबन्धपाती वृधकोदरस्थयो वृक्षे चटित्वा अंडकानि भक्षयति स्म । काकी दु:खिनी जाता । ततो बुद्धया तया राजपुश्या स्नानं कुर्वत्था जलतीरस्थछब्बास्थं हारमुत्पाट्य सप्पविले मुक्तः । ततो राजा पुरुषैरिं विलोकयद्भिः हारः सर्पविले दृष्टः हारं गृहाद्भिः सप्पं दृष्ट्वा सर्पस्तैर्हतः। काकी सुखि नी जाता।
उपायेन हि तस्कुर्यात् यत्र शक्यं पराक्रमैः । काक्या कनकसूत्रेण कृष्णसर्पो निपातितः ॥५॥
इति उपाये काकीसम्बन्धः ॥५८७॥
[588 ] अथ स्वजातित्यजन् दुःखे शृगालसवन्धः । एकस्मिन् वने चण्डखः शृगालस्तिष्ठति स्म । स च लोल्यात् पुरमध्ये प्रविष्टः श्वानस्तत 10 पृष्ठो धाविताः । शृगालो नश्यन् रजकस्य नीलीकुण्डरसे पपात । सारमेया अपि पेतु स्तत्पृष्ठौ
सर्व सहशा बभूवुः । शृगालो वने गतः । श्वानः स्वस्वपाटके गताः । वने व्याघ्रास्तं तादृशं दृष्ट्वा व्याघ्रादयो बिभ्यन्तः पलायनं कतुं लग्नाः वदन्ति च
न यस्य चेष्टितं विद्यात् न कुलं न पराक्रमं ।
न तस्य विश्वसेत् प्राज्ञो' य इच्छेद्धितमात्मनः ॥६॥ 16 चण्डरवो भयाकुलस्तान प्राह-मो श्वापदा मा यूयं मयं कुरुष्वं । अहं ब्रह्मणा वः
स्वामीकृतः। ततो मम छत्रछायायां सुखं तिष्ठत मां पश्यत । मम "षुषद्रम" इति नाम दत्तमस्ति । एतत श्रत्वा सर्वे श्वापदाः स्वस्थीभूताः। ततस्तेन सिंहस्यामात्यपदवी दत्ता । व्याघ्रस्य शय्यापालत्वं द्वीपिनस्ताबलिकपदवी वृकस्य द्वारपालकपदवी । ये चात्मीय जातीयाः) जास्यास्तैः सह
वाता न करोति शृगालः । यदा व्याघ्रादयः श्वापदान् हत्वा आनयन्ति तदा सर्वेषां स विभज्य 20 दत्ते । एकदा रात्रौ दूरे शृगालान् शब्दं कुर्वाणान् श्रुत्वा जातिस्वभावात् उच्चैः शब्दं कर्तु
लग्नः । ततो व्याघ्रादिभितिं अयं शृगालः । अनेन वाहिता वयं, लज्जितास्तै रुत्थाय शृगालो नश्यन् हतः । यतः--
आत्मवर्ग परित्यज्य, परवर्ग तु सेवते ।
स एव निधनं याति, यथा राजा पुषद्रमः ॥१॥ 25
इति स्वजातित्यजन् दुःखे शृगालसम्बन्धः ॥५८८।।
[589 ] अथ वैरिसेक्ने उष्ट्रमृत्युसम्बन्धः । एकस्मिन् बने सिंहस्य स्वामिनः व्याघ्रवृषभशृगालादयः सेवकाः बभूवुः । एकदा सार्थभ्रष्टः क्रमेलकस्तत्रागतः । व्याघ्रः प्राह-सिंह प्रति अयं ग्रामीणो जीवः व्यापाद्यते । सिंहोऽवग
शरणागतोऽयं न हन्यते वैयपि । यतः-- . १ यदीच्छेच्छ्रियमात्मनः इत्यपि ।
"Aho Shrutgyanam"