________________
२७२ ]
प्रबन्धपती
अन्यदा आश्विनमासे समागते अबोटिकाः [आच्छोटिकाः] पतीआनका अध्येत्य । भूपस्याये प्रोचुः - पर्व समायातं महिणिका । तत्र सप्तम्यां सप्तशती महिषाणां हन्यते, अष्टम्यां अष्टशती, नवम्यां नवशती । ततो दीयन्तां, देवीभ्यो दास्यन्ते । ततो राजोत्थाय गुरुपा गतः कथिता सा वार्त्ता गुरुभिः प्रोक्तं कथयिष्यते युक्तिः । ततो ऽप्रेतने दिने प्रोक्तं गुरुभिः
5 " यस्मिन् दिने यावन्तो हन्यन्ते तावन्तो देवीनां पुरतः स्थाप्याः " प्रोच्यं च भो देवि ! तब बलिः कृतोऽस्ति त्वं भक्षयित्वा तृप्ता भव । गुरूक्तं राशा कृतं, देवीभिरेकोऽपि न भक्षितः । दशमीदिने पतीआनकेभ्यो भूरि धनं दत्वा । राज्ञा प्रोक्तं- अद्यप्रभृति यद्भवतां विलोक्यते तन्मार्गणीयं न जीवो हिस्यः । ते तु पशवो देवो[सत्काः] कृत्वा स्वेच्छया चरितुं मुक्ताः । इति जीवदयायां कुमारपालसम्बन्धः || ४९४ ॥ [495] अथ धर्मदृढ़तायां कुमारपालसम्बन्धः |
10
एकदा कण्टेश्वरी देवी रात्रावभ्येत्य । भूपस्याग्रे प्राह-अहं तव कुलदेवी स्वया अस्मदर्थ किमपि न कृतं ? राजा जगौ मया जीवहिंसाविषये नियमो गृहीतः जीवन्नहं पिपीलिकामपि न हन्मि पञ्चेन्द्रियाणां का कथा । ततो रुष्टा त्रिशूलेन भूपं हत्वा गता राजा कुष्ठी जातः । ततो भूप उदयिनं मन्त्रिणमाकार्य प्राह देव्योक्तं स्वं वपुर्दर्शयामास च । मन्त्री प्राह स्व15 स्थीभूय तं गुरवः पृच्छयन्ते प्रातः यदि लोकाः पश्यन्ति भवद्वपुस्तदोड्डाहो भविष्यति जिनम
20
ताहीना च । ततो मन्त्रिणा गत्वा भूपस्वरूपं श्रोहेमसूरिपाइ प्रोक्तं, गुरुभिः सद्यो जलभिमन्त्रय दत्तं प्रोक्तं अनेन भूपदेहमाच्छोदयं सिवनेन । ततो मन्त्रिणा तेन जलेन भूपवपुराच्छोटितं राजा दोगुन्दकदेवशरीरोभूत् प्रातर्गुरुं वन्दितुं ययौ गुरुभिः प्रोक्तं
25
शूराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः,
सन्ति श्रीपतयो निरस्तधनदास्तेऽपि क्षितौ लक्षशः १ । किन्त्वाकर्ण्य निरीक्ष्य वाऽन्यमनुजं दुःखार्दितं यन्मनरस्ताद्रूप्यं प्रतिपद्यते जगति ते सत्पुरुषाः पञ्चषाः || १ || ततो राजा विशेषतो जिनधर्मे दृढतां दधार ।
इति धर्मतायां कुमारपालसम्बन्धः ||४९५||
[496] अथ कुमारपालभूपालयात्रासम्बन्धः ।
एकदा श्रीहेमसूरिः प्राह--भो कुमारपाल ! शृणु-पुरा भरतचक्री शकटलक्षमनुष्यकोटिभूपशतसहस्रयुतः स्थाने स्थाने उत्सवं कुर्वन् शत्रुञ्जये श्रीऋषभं ननाम तथाऽन्येऽपि आदित्यादयो भूपाः कोटिशः संघपतयो जाताः, संघपतिसमं पदं न स्यात् । यतोऽन्यत्पदं पापनिबन्धनं १. भूरिशः । २ तद्रूपं ।
"Aho Shrutgyanam"