________________
चतुर्थोऽधिकारः
[ २७३ संघेशपदं तु मुक्तिदायि निगद्यते, शत्रुजययात्राफलं श्रुत्वा राजा भूरिसंघयुतः प्रौढदेवालयारूढजिनप्रतिमापूर्व शत्रुब्जययात्रायै चचाल चतुर्विशतिप्रासादान् कारयन् मन्त्रिपुत्रवाग्भट्टमन्त्रिनागश्रेष्ठिपुत्र आभड षड्भाषाचक्रवर्तिश्रीपालसिद्धपालानेकप्रह्लादनपुरस्वामिभूपालादयोऽपि चेलु- . यात्रायै । श्रीहेमसूरिदेवसूरिप्रभृतयोऽनेके सूरयः साधवश्च । महादानानि दीयन्ते, प्रामे पुरे जिनेन्द्रपूजा क्रियते, श्रीशत्रुजये संघः प्राप्तः, मरुदेव्या दशने नालिकेरादिस्फोटनपूजाकरणं। 5 तत्र ददति धनं कुमारपाले मार्गणेभ्यः; कवयश्च प्रोचुःक्षिप्त्वा वारिनिधिस्तले मणिगणं ररत्नाकरारोहणो
रेवावृत्य सुवर्णमात्मनि दृढं बद्ध्वा सुवर्णाचलः । क्ष्मामध्ये च धनं निधाय धनदो बिभ्यत्परेभ्यः स्थितः,
किं स्यातः कृपणैः २स सोऽयमखिलार्थिभ्यः स्वमर्थं ददन् ॥१॥ 10 "श्रीवीरे परमेश्वरेऽपि भगवत्योख्याति धर्म स्वयं, ।
प्रज्ञावत्यभयेऽपि मन्त्रिाणि न यां कत्तुं क्षमः श्रेणिका । अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षां व्यधान्
३यस्योसौ सुवचः सुधां स परमः श्रीहेमचन्द्रो गुरुः ॥२॥ लक्षदानं सर्वत्र देवगृहेषु चैत्यपरिपार्टी कुर्वाणो भूपो देवपूजास्नात्रमहोत्सवारात्रिंकमंग- 16 लप्रदीपादि चक्रे ततः स्थाने स्थाने स्नात्रमहः कुर्वन् देवपत्तने चन्द्रप्रभस्वामिनं प्रपूज्य गिरिनारे श्रीनेमि पूजयामास । तत उत्तीर्णो मार्ग मार्ग श्रीसंघ जेमयित्वा दिव्यवस्त्रैः परिधापयन् गुरुन् परिधापयामास । ततः संघं विसर्य सोत्सवं राजा पत्तने समागात् ।
इति कुमारपालभूपालयात्रासम्बन्धः ॥४९६॥
[497 ] अथ भाग्ये कुमारपालसम्बन्धः । एकदा शाकम्भरीपतिभूप आनाकः कुमारपालभगिनीपति तं रममाणः पल्या सह हास्येन प्राह-हेमसूर्यादिमुण्डकान्मारय । तदा पत्न्योक्तमेवं न प्रोच्यते, ते तु मम भ्रातुर्गुरवो जीवदयापालकाः। यदा पुनः पुनरेवं वक्ति तदा पल्योक्तं-जिह्वां संभालय । तदा रुष्ट आनाकः पत्नी पाणिना हतवान् पल्योक्तं-विलोकय तव जिह्वां मम भ्राता अवटोः कर्षयिष्यति । ततः सा रुष्टा पत्तने गता पतिस्वरूपं प्राह । ततो राज्ञा आश्वासिता भगिनी, प्रथमं तत्र स्वमंत्रितं तस्य 25 स्वरूपं ज्ञातुं प्रेषितः । स च तत्र गतो दास्या लुब्धोऽन्यदा दासी उत्सूरेण समागात् तदा तेनोसूरागमने हक्किता प्राह-"अद्य मयाऽधुना (आनो) राजा मन्त्रिणा विचार्य कुमारपालं हन्तुं जनः प्रेष्यमाणोऽस्ति तस्याने प्रोक्तं-त्रिभुवनविहारमध्ये त्वया रविवारे स्थेयं, तत्र यदा याति तदा त्वया हननीयो राजा । ततो मन्त्री सद्यस्तत्क्षणं आकण्य · राजसूत्रितं कुमारपालाय . रत्नोत्करं रोहणो । २. समोऽयमखिलार्थिभ्यः स्वमर्थ ददत् । ३. यस्यास्वाद्य वचः सुधां ।
"Aho Shrutgyanam"