________________
तृतीयोऽधिकारः
[ २५७सपा यावन्तो जले क्षिप्यन्ते तावन्तो अश्ववारावर्यपल्ययन [ मल]कवि, कजरहगुडि[हाग]रक्षिकाटोपखङ्गासिपुत्रीप्रमुख द्विचत्वारिंशदुपकरणसहिता निस्सरन्ति । ततः परबलं जेष्यते सुभटाः सिद्धे कार्ये अदृश्य भवन्ति । द्वितीया हेमविद्या यया क्लेशं विना शुद्ध हेमकोटी निष्पाद्यते येन तेन धातुना ततस्ते द्वे विद्ये गृहीते सूरिणा ततो यावदग्रे पाचयति तावत्स्तंभो मिलितः वागभूत् पुस्तकमपि मध्ये स्थितं “अयोग्योऽसि ईदृशीनां विद्यानां प्रयासः पुनर्न कार्यः " ततः सिद्धसेन सूरिविद्याद्वयं प्राप्य सन्तोषं चकार ।
5
इति प्राप्त सर्वपविद्या हेमविद्याश्रीसिद्ध सेनदिवाकरसम्बन्धः || ४७३ || [474] अथ नवीनकटकनिर्माणविद्यासम्बन्धगर्भा सिद्धसेन रिसम्बन्धः |
एकदा कुर्मारपुरे श्रीसिद्ध सेनसूरिर्ययौ । तत्र देवपालराजो गुरु वन्दितुमाययौ धर्मोपदेशं शुश्राव । तत्र परस्परं गोष्ठी सदा गुरुभूपयोः प्रवर्त्तते ।
एकदा गुरुर्विज्ञप्तो रहसि राज्ञा - भगवन् ! वयं संकटे पतिताःस्म । गुरुः पप्रच्छ किं संकटं तवास्ति ? राजा जगौ सीमालभूपाः मम राज्यं जिघृक्षया आगच्छन्तः श्रुताः, श्रीप्रभुपार्श्वे विद्या श्रूयते यदि यूयं कृपां मयि कुरुथ ? तदा राज्यं तिष्ठते । सूरिराचष्ट-चिन्ता न कार्या, तव यद्यहं गुरुरभूवं, राजा हृष्टः क्रमात्परचक्रं समायातं । विद्यया प्रथमया सेना रचिता, द्वितीयया हेम च ततो युद्धे जायमाने वैरिबलं भग्नं । ततो जयजयारात्रोऽजनि । ततो राजा भक्तोऽभूत् 15 ततो गुरुणा जैनः कृतः ततस्तेन राज्ञाऽनेके जिनागाराः कारिताः ।
इति नवीनकटकनिर्माणविद्यासम्बन्धगर्भा सिद्धसेनसूरि सम्बन्धः ||४७४ ||
[475] अथ प्रमादत्यागे सिद्धसेन रिसम्बन्धः ।
क्रमात् सिद्धसेनसूरिः संयमशिथिलोऽजनि वेलायां प्रतिक्रमणादिक्रियां न करोति, अनेके राजानः एवायान्ति श्रावकाः श्राविका धर्मशालायां प्रवेशमपि न लभन्ते वेषमात्रधारी जातः । यतःदगपाणं पुष्पफलं, अणेसणिज्जंति गिहत्थकिच्चाई | अजया पडिसेवंती, जइ वेसविडंबगा नवरं ||१||
t
वतः सिद्धसेनसूरिः सुखासनारूढश्चलति । इतो गुरुणा सिद्ध सेनप्रमादस्वरूपं ज्ञातं । ततो गुरुर्वेषान्तरं कृत्वा सिद्धसेन सुखासनं स्कन्धे चकार वर्त्मनि सिद्धसेनो बभाषे -
"भूरिभारभराक्रान्तः, स्कन्धः किं तव बाधति !”
बुद्धवादी जगौ
"न तथा बाधते स्कन्धो, यथा बाधति बाघते " ॥२॥
ततो ज्ञातं तेन मम गुरुं विना ममोक्तौ कोऽपि कूटं न कर्षति । एवं ध्यात्वा आसनादुन्ती गुरुमुखमुपलक्ष्य पादौ पपात क्षमयामासापराधं । ततो गुरुभिः प्रोक्तं---
10
"Aho Shrutgyanam"
20
25