________________
२५६ ।
प्रबन्धपश्वशती __ अप्रतिमलो वादी जातो मुकुन्दमुनिः । ततः सूरिमिः स्वपदं दस पुसवादीति नाम जातम । इति वृद्धवादिसूरिसम्बन्धः ॥४७१।। ।
[472] अथ सिद्धसेनसूरिवाददीक्षासूरिपदसम्बन्धः । एकदा देवर्षिद्विजपुत्रो देविकामातृभवः सिद्धसेनो विप्रो महाविद्यापारगो विजितानेकवादी 5 वृद्धवादिसूरिस्फुर्ति श्रुत्वा सुखासनारूढोऽनेकच्छात्रपरिवृतो गुरुं जेतुं मृगुपुरं प्रति चचाल
मार्गे गुरवो मिलिताः परस्परमालापः सिद्धसेनोऽवग--त्वं वादं देहि सूरिः प्राह ददामि शीघ्र परमत्र के सभ्याः वादे जिताजितादिविषये को निर्णयं करिष्यति ? सिद्धसेनोऽवग-एते गोपाः सभ्याः वृद्धवादिनोक्तं--तर्हि ब्रहि । ततः सिद्धसेनः संस्कृततर्कच्छन्दोलङ्कारादि जल्पितुं लग्नः
यदा जल्पं जल्पं स्थितस्तदा गौपैरुक्तमस्य प्रोक्तं किमपि न ज्ञायते । तेनासौ किमपि न 10 वेत्ति उच्चैजेल्पता कर्णाः स्फोटिताः । ततो वृद्धवादी कच्छडक बन्धयित्वा घींघणीछन्दसा कीडति, तथाहि
नधि मारीइ नवि चोरीइ परदारह गमण निवारी ।
थोवा थोवउं दाईइ दुगड्डुगि सरगिहिं जाईइ ॥१॥ पुनरपि प्रोच्यैवं नृत्यति पठति च--
तू कालु कंबल अनइनीबडु छासिहि भरीओ दुईओ निप्पदु ।
अइवडपडिओ नीकलइ[सा]डाडि, अवरकिसर[सग]गह सिंगनिलाडि ॥२॥ ततो गोपा प्रोचुः-अयं वर्यः सर्वज्ञः अहो कीदृग्कर्णसुखकारि वचः । ततः सिद्धसेनः स्वं हारितं मत्वा प्राह-भगवन् ! प्रव्राजय मां तव शिष्योऽहं त्वया अवसरो ज्ञातो मया
तु न । अथ वादी आह--भृगुपुरे गम्यते तत्र भूपाने वादः करिष्यते । तत्र झास्यते को 20 विज्ञ इति ततस्तत्र गतौ । तत्रापि सूरिणा जितः सिद्धसेनो दीक्षा जग्राह-यत्र वादो जातः
तत्र तालरसग्रामो राज्ञा वासितः सिद्धसेनस्य कुमुदचन्द्र इति गुरुभिर्नाम ददे दत्तं सूरिपदं क्रमात् सिद्धसेनदिवाकर इत्यपि नाम जातम् ।
इति सिद्धसेनसरिवाददीक्षासूरिपदसम्बन्धः ॥४७२।।
[473] अथ प्राप्तसर्षपविद्याश्रीसिद्धसेनदिवाकरसम्बन्धः । एकदा सिद्धसेनसूरि चित्रकूटे प्राप्तः । तत्र चिरन्तनचैत्ये स्तम्भमेकं महान्तं दृष्ट्वा कंचित् पुरुषं प्रपच्छ कोऽयं स्तम्भो महान किमत्रास्ति ? तेनोक्तं--पूर्वाचारस्य स्तम्भस्य मध्ये पुस्तकानि न्यस्तानि सन्ति स्तम्भस्तु तत्तदौषधमयो जलादिभिरभेद्योऽस्ति । ततः सूरिस्तस्य स्तम्भस्य गन्धं गृहीत्वा प्रत्यौषधरसः स्तम्भमाच्छोट्यामास । ततः प्रातरम्बुजवद्विकसितः मध्ये पुस्तकाः[नि] दृष्टाः नि] । तत्रैक छोटयित्वा वाचयनाचे पत्रे द्वे विधे दृष्टे एका सर्षपविद्या यवा अभिमन्त्रिताः
15
25
"Aho Shrutgyanam"