________________
द्वितीयोऽधिकारः
[ २५५
प्रमुणोक्तं-- अयसाभियोगसंदूमियस्स पुरिसस्स मुद्धहिअस्स ।
होइ वहंतस्स दुई, चंदणरससीयलो अग्गी ॥२॥ ततस्ते प्रोचुः त्वं साक्षादेवामरगुरुः ब्राह्मी !
इत्युचितजल्पने श्रीपादलिप्तमुरिसंबंधः ।।४६९।।
[470] अथ प्रगल्भतायां पादलिप्तमूरिसम्बन्धः । एकदा श्रीपादलिप्तसूरयः कुर्चालसरस्वत्यादिविरुदधारिणः प्रतिष्ठानपुयां महोत्सवपूर्व समागच्छन्ति ।
इतः सर्वैः पण्डितैः सम्भूयैकत्र स्त्यानघृतभृतं कच्चोलकमाचार्याणां सन्मुखं प्रेषितं आचार्यैस्तु घृतमध्ये सूचिका क्षिप्ता तथैव पश्चात्प्रेषितं । ततः राज्ञोक्तं गुरुभिरिदं कृतं, को भावः, पंडितैरुक्तं-गुरुभिज्ञापितं पण्डितैभृतं पुरं विद्यते तथापि यथा सूचिघृतमध्ये प्रविष्टा तथाहमपि प्रवेक्ष्यामि पुर्या । ततो राजादयो विप्राश्च संमुखं गताः सूत्सवे जायमाने गुरवो धर्मशालायामागता उपदेशो दत्तः श्रीपादलिप्ताचार्य निर्वाणलिकप्रश्नप्रकाशादिशास्त्राणि निर्मितानि राजा रञ्जितः । इति प्रगल्भतार्या पादलिप्तसूरिसम्बन्धः ॥४७०॥
[471] अथ वृद्धवादिसरिपदसम्बन्धः । स्कन्दिलाचार्योपान्ते वृद्धत्वेऽपि चारित्रं जग्राह मुकुन्दद्विजः, स च गुरुभिः सह भृगुपुरे गतः उच्चैः स्वरं ढढस्वरं [ढनरस्वरेण] भणति राज्ञा साधुभिश्चोक्तं-किं मुशलं पुष्पयिष्यति स चावग-यदि विद्याः समेष्यन्ति तदा [पुष्पयिष्यते] पुष्पते । ततः खिन्नो विद्यार्थी ब्राह्मोदेव्या अग्रे एकविंशतिमुपवासांश्चक्रे सा प्रसन्ना प्राह - सर्वविद्यासिद्धो भव तपसाऽहं तुष्टा तुभ्यं, सब विद्यापारगः स राजादीनां पुरो जगो-यन्ममोपहासः कृतः 'मुशलं पुष्पयिष्यसा तो त्यादिना ततो राजादिबहुषु लोकेषु मिलितेषु मुशलमानाय्य चतुष्पथे स्थित्वा विद्यया मुशल पुष्पयामास । तस्य पृष्टौ स्थित्वा प्रोवाचेति
[[तप्त] कम्यो [पत्तमवलंविअं] मुद्गो शृङ्ग शक्रयष्टिप्रमाणं ।] अप्रतिमन्लोवादीह जो जपई फुल्लमुसलमिह । तमहं निराकरित्ता फुल्ला, मुसलं ति ठावेमि ॥२॥ शीतो वह्निर्मारुतो निष्प्रकम्पो, मुद्गा शृङ्गं शक्रमुष्टि यष्टि]प्रमाणम् । यस्मै यद्वा रोचते तन्न किंचित्, वृद्धो वादी भाषते का किमाह १ ॥३॥
तथा च
"Aho Shrutgyanam"