SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ २५८ ] 5 प्रबन्धपञ्चशती Payout आहारगा, विमलनाणी विअरागावि । हुति पमायपरवसा, तयणंतरमेव चउगईआ ||३|| प्रमादः परमद्वेषी प्रमादः परमं विषम् । प्रमादो मुक्तिपूर्दस्युः, प्रमादो नरकायनम् ॥ ४ ॥ ततः प्रमादं मुक्त्वा गुरुपार्श्वे आलोचनां छात्वा शुद्ध चारित्रपालनपरोऽभूत् । इति प्रमादत्यागे सिद्धसेनसूरि सम्बन्धः ||४७५ ॥ [476 ] अथ अवन्तिसुकुमालस्वरूपम् । अवन्त्य भद्रश्रेष्ठी मद्रापत्नीभवोऽवन्तीसुकुमालः पुत्रो द्वात्रिंशदिम्यपुत्रीः परिजिन्ये महासौख्यात् शालिभद्रावतारः । एकदा तत्र आर्य सुहस्तिसूरिर्वशपूर्ववरः आगत्य भद्रश्रेष्ठिगृहे 10 स्थितः । अनेकश्राद्धाः धर्म श्रुत्वा पुण्यं कुर्वन्ति स्म । रात्रौ मधुरस्वरं नलिनीगुल्मविमानास्थमध्ययनं गुरुभिर्गण्यमानं श्रुत्वोहापोहपरः प्राप्तजातिस्मृतिरवन्तिसुकुमालो दध्यौ । तत्र विमाने यत्सुखं विद्यते । ततोऽत्र कोटिभागेऽपि नास्ति ततस्तत्र गम्यते तदा वरं । ततो गुरुपार्श्वे गतः पृष्टं भगवन् ! किं यूयं नलिनीगुल्मविमानादश्रायातः यतस्तत्स्वरूपमुच्यमानमस्ति । गुरुः प्राह - सिद्धांत गण्यमानमस्ति । स प्राह तत्र त्वरितं कथं गम्यते ! गुरुणोक्तं चारित्रात् ! स प्राह--- चारित्रं 15 प्राहय । गुरुः प्राह--तब मात्राद्यनुमस्या दीक्षा भवति । ततः स्वयं चारित्रं गृहीत्वा श्मशानभूमौ कार्योत्सर्गे स्थितः । तदा पचाद्भवसम्बन्धि पत्नीशिवाया उपसर्ग सहमानो मृत्वा तत्र विमाने देवोऽभूत् प्रातर्मात्राद्याः पुत्रस्वरूपं ज्ञात्वा दुःखिनो जाताः । ततो गुरुर्भिनलिनीगुल्मविमानस्वरूपं प्रोक्तं । ततस्तस्य मृत्युस्थाने महाकालाभिघः श्रीपार्श्वनाथप्रासादः कारितः प्रभोः प्रतिमा स्थापिता । इति अवन्तीसुकुमालस्वरूपम् ||४७६ || 20 इति श्रीतपागच्छाधीश श्रीमुनिसुन्दरसरिशिष्य-श्रीरत्नशेखरसूरिपट्टलक्ष्मी सागर सूरिशिष्य पं० शुभशीलगणिविरचित पञ्चशतीकथा प्रस्तावकोशे ॥ तृतीयोऽधिकारः समाप्तः ॥ "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy