________________
द्वितीयोऽधिकारः
[ २४९ ख्यातोऽजनि सत्यभोमो दथ्यौ केनचिदहं वञ्चितो मम रूपकरणात् । ततो यदा हट्टे आगतस्तदा तेन हक्कितो रे दुष्ट धूर्त ! अत्र यथागमिष्यसि तदा हत एव, गृहे प्रवेष्टुं न लभते । ततो दःखी रुदन वक्ति । अहं मुषितोऽस्मि । अनेन लोकास्तु सर्व तेन भक्तिता धूर्तस्य पार्श्वे जाताः । ततो द्वावपि विवदमानौ भूपपार्श्वे गत्वा स्वं स्वं सम्बन्धं प्रोचतुः । द्वाबपि सदृशौ सदृशजल्पको तेन यदा केनापि निणर्णीतिर्न कृता तदा राजा दध्यौ, शिष्टपरि- 5 पालनं दुष्टनिग्रह इति राज्ञो धर्मः। यतः--
प्रजापीडनसन्तापात, समुद्भुतो हुताशनः ।
राज्ञः कुलं श्रियं प्राणान् , नादग्ध्वा विनिवर्त्तते ॥१॥ एवं ध्यात्वा भूपस्तस्य पत्नीद्वयमेकत्र स्थापयित्वा पप्रच्छ, किं युवयोः पाणिग्रहे भा । कि जल्पितं ? कि दत्तं ? प्रथम संगमे च । कस्मिन् स्थाने कि भुक्तं ? ततो राज्ञा द्वाबपि 10 पृष्टौ । यम्य प्रोक्तं विघटितं स गृहस्वामी जातः ।
एवं बुद्धौ भूपसम्बन्धः ॥ ४५९॥
[ 460] अथ आर्यनन्दिलमूरिसम्बन्धः । पद्मिनीखण्डपुरे वरदत्तेन वैरोट्या नाम्नी पुत्री पयशसः पद्मपुत्राय दत्ता ।। वरदत्तो व्यवसायार्थ देशान्तरे गच्छन् दवेन दग्धः । ततो वैरोट्या श्वश्रूरपमानयति 16 पितृमरणात् । यतः
रूपं रहो धनं तेजः, सौभाग्यं प्रभविष्णुता ।
प्रभावात्पैतृकादेव, नारीणां जायते ध्रवम् ॥१॥ वैरोट्या चिन्तयति-स्व कर्मणा एव फलं भवति । यतः
सव्यो पुच्चकयाण, कम्माणं पावए फलविवागं ।
अवराहेसु गुणेसु अ, निमित्तं (च) परो होइ ॥२॥ वैरोट्याऽन्यदा योगीन्द्रस्वप्नसूचितं गर्भ बभार. पायसदोहदो जातः । श्वश्रूर्वक्ति सुता भविष्यति । वैरोट्या श्रीआर्यरक्षितं सूरि वन्दितुं गता । सहविरोधः प्रोक्तः, गुरुणोक्तं पूर्वभवकर्मणा पायसदोहदात्पुत्रो भावी, श्वश्रा पुण्डरीकतपः कृतं । तस्योद्यापने पायसं कृतं, वध्व न दत्तं, वधूस्तु अन्यत्र पायसं निष्पाद्य घटे क्षिप्त्वा कुम्भं मुक्त्वा 25 जलाशये गता
अत्रान्तरे अलिब्जरनागः स्वपत्नीदोहदपूरणाय क्षीरान्नं लात्वा गतः । इतो वैरोट्या तत्रागता क्षीरान्नमदृष्ट्वा न चुकोप बभाषे च-येनेदं भक्षितं मे भक्ष्यं तस्य मनोरथाः पूर्यन्ता एतद्वचोऽलिब्जरपल्या ज्ञातं । ततो हृष्टाऽवग-असा मनोरथः पूर्यते तदा वरं, ततस्तस्या
"Aho Shrutgyanam"