________________
२३८ ]
पती
दृष्टिष्टा भूपतीनां तमोभिः | लोभस्तु सर्वेषां विद्यते राजानस्तु आत्मोयाः न भवन्ति केषामपि, तेनास्मन्मनो मन्त्रीस्वरपदग्रहणे दोलायते । यदा श्रीर्भवति तदा तु धर्मस्थानादौ व्ययितुमिच्छा भवति । तदा राज्ञो दृष्टिर्यदारा भवति । तदा सर्व राजा गृह्णाति । राजाऽवग्-यत्र भवतो[ते] रोचते तत्र तत्र श्रीर्व्ययनीया । मन्त्री जगौ - अस्मद् गृहे साम्प्रतं लक्षत्रयी द्रव्यस्य विद्यते कदाचित् पिशुनप्रवेशाद्राज्ञो मनश्चलति । तदा लक्षत्रयं मोचनीयमधिकं ग्राह्यं । राजा जगौ - अहं यदि भवतां श्रियं गृह्णामि । तदा मम भवतोरीश्वरोऽन्तरा क्रियमाणोऽस्ति । ततो राज्ञा दत्ता मुद्रा द्वाभ्यां भ्रातृभ्यां गृहीता । ततः स्तम्भतीर्थदेशव्यापारो दत्तस्तेजःपालस्य धवलक्कदेशव्यापारो, वस्तुपालमन्त्रिणो ददे भूपेन, ततस्ताभ्यां तथा कृतं थाने देशाः साधिताः । दिने दिने राज्ञः कोशो ववृधे मन्त्रीश्वरगृहमपि श्रिया भृतं राजा हृष्टः सन्मानं दत्ते तयोः ।
इति वस्तुपालतेजपालयोर्मुद्राप्राप्तिसम्बन्धः ॥ ४४ ॥
[441] अथाऽनित्यतास्मरणे वस्तुपालसंबंधः ।
अम्बदा श्रीवस्तुपालो मन्त्री मस्तकादागतमेकं पलितं दृष्ट्वा पपाठ । अधीता न कला काचित् न च किञ्चित्कृतं तपः । दत्तं न किञ्चित्पत्रेभ्यो, गतं च मधुरं वयः ॥ १ ॥ आयुर्यौवन वित्तेषु स्मृतशेषेषु या मतिः । सैव वेज्जायते पूर्वं न दूरे परमं पदम् ||२| आरोहन्ती शिरःस्वान्ता - दौन्नत्यं तनुते जरा | शिरसः स्वान्तमायान्ती, दिश्यते[दिशति] नीचता पुनः ||३||
लोकः पृच्छति मे वार्तां, शरीरे कुशलं तव । कुतः कुशलमस्माक - माधुर्याति दिनेदिने ||४||
एवं ध्यात्वा विशेषतोऽनेके प्रसादान् साधर्मिक वात्सल्यगुरुपरिधापनशुद्धभक्तप्रदानादिधर्मकृत्यानि च मन्त्री चकार ।
इति अनित्यतास्मरणे वस्तुपालसम्बन्धः || ४४१ ॥
(१) नष्टं सत्वं सात्विकानां । (२) लोभो जातः सर्वलोभिना, सम्प्रति शपथमाहात्म्यं विद्याविकले, लोभस्तु सर्वेषां विद्यते । (३) अस्मभ्यां [आषाभ्यां] धर्मे सप्तक्षेत्र्यां स्वदर्शने शिवदर्शने श्रीर्व्ययिष्यते यदिस्वामि प्रसन्न एव वीक्ष्यते । (४) वैरीगणोपद्रवः श्रीग्रहणमोचने स्वामिन आज्ञा प्राहितः । [ प्रतौ एतदधिकमुपलभ्यते ]
"Aho Shrutgyanam"