________________
द्वितीयोऽधिकारः
[ २३७ [440] अथ वस्तुपालतेजपालयोर्मुद्राप्राप्तिसम्बन्धः । एकदा रात्रौ गोर्जरी[त्रा]अधिष्ठायिका सुरी धवलक्कपुरे वीरधवलभूपस्य पुरोऽभ्येत्यावग्इयं गूर्जरा बहुभिभूपैर्भुक्ता । अधुना त्वमवती? भोक्तुं यदि तव राज्यवर्धनेच्छा विद्यते तदा वस्तुपालतेजपालो मन्त्रिणौ कुरु । एवं प्रोच्य देवी विद्युदिव तिरोदधे । राज्ञा दभ्योकोऽपि दिव्योपदेशः, कर्तव्य एव । यतः
दृप्यद्भुजाः क्षितिभुजः श्रियमर्जयन्ति,
नीत्या समुन्नयति मन्त्रिजनः पुनस्ताम् । रत्नावली जलधयो जनयन्ति किन्तु,
संस्कारमत्र मणिकारगणः करोति ॥१॥ इतो रात्री देवी सैव लवणप्रसादस्याग्रेऽप्यवदत् वस्तुपालतेजपाली मन्त्रीश्वरौ कार्यों, पितापुत्री 10 एकत्र मिलित्वा मिथः स्वस्वं रात्रिवृत्तान्तं जजल्पतुः । ततस्ताभ्यां वीरधवललवणप्रसादाभ्यां सोमेश्वरदेवगुरोरने प्रोक्तं । गुरुर्द्विजः प्राह-युवा भाग्येन देव्या ज्ञापितमेतत् । ममकल्ये वस्तुपालतेजपालौ मिलितौ । साक्षात्पुरुषोत्तमप्रायो विज्ञौ, सदाकारी, विनीती, सर्वकलाकुशलो, धीमन्तो, शूरौ, दानिनौ, धर्मवन्तौ । तदा मया ध्यातं यद्येतो मन्त्रिणौ भवतस्तदा राज्यवृद्धिभवति । ततस्तो सोदरौ राज्ञा तत्राकारितो, आसनदानादिना सन्मानितौ । ततो भूपो जगौ 15 युवयोमन्त्रीश्वरपदं दातुकामोऽस्मि उक्तं च
आवयोश्च पितृपुत्रयो-महानाहितः क्षितिभर; परद्रुहा ।
तधुवां सचिवपुङ्गवावह, योक्तुमत्र युगपत्समुत्सहे ॥१॥ अथ वस्तुपालो जगौदेव ! सेवकजन; स गण्यते, पुण्यवत्सु गुणवत्सु चाग्रणीः।
१० यः प्रसन्नवदनाम्बुजन्मना, स्वामिना मधुरमेवमुच्यते ॥२॥ नास्ति तीर्थमिह पार्थिवात्परं, यन्मुखाम्बुजविलोकनादपि । नश्यति द्रुतमपायपातकं, सम्पदेति च समीहिता सताम् ॥३॥ किन्तु किमपि विज्ञाप्यते स्वामी,
आवाभ्यां सागता शुभमयी जगत्त्रयी । देव ! संप्रति यु [ग:] कलिः पुनः सेवकेषु,
न कृतं [ता] कृतज्ञता नापि भूपतिषु यत्र दृश्यते ॥४॥
"Aho Shrutgyanam"