________________
२३६ ]
प्रबन्धपञ्चशती
स्पृष्ट्वा शत्रुञ्जयं तीथं, नत्वा रैवतकं गिरिम् । स्नात्वा गजपदे कुण्डे, पुनर्जन्म न विद्यते ॥२॥
कृत्वा यूपसहस्राणि, हन्या जन्तुशतानि च ।
इदं तीर्थ समाराध्य, तियंचोऽपि दिवं गताः ॥३॥ 6 इत्यादि तीर्थमाहात्म्यं श्रुत्वा कुमपत्रिका बहुषु देशेषु प्रेध्य बहुं श्रीसंघमाकारयामास मन्त्री, जगो च
वाहनौषधपाथेयं, सहायवृषभादिकम् ।
यद्यस्य नास्ति तत्तस्मै, सर्व देयं मया मुदा ॥४॥ प्रस्थानावसरे कविः प्राह-वस्तुपालो मन्त्री भरतचक्रीव यात्रामधुना कुर्वाणोऽस्ति । 10 प्रथमं देवगृहे स्नात्रं विस्तरान्मन्त्री चक्रे, पश्चात्संघाचर्चा । ततो मन्त्रपूर्व देवालयानां रखे
स्थापनं । तत्र चामरादिधरणढालनादि अविधवास्त्रीतिलककरणगीतगानादि, वृषभाणां घर्षरमालाबन्धनं । कौसुम्भिकाया वृषशृङ्गेषु धारणं । प्रथमयात्राया विस्तरः ४००० सेजवाला, ७.० सुखासनानि, १४०० श्रीकः, ३३३ सूरयः, २२०० यतयः, ११०० झपणकाः, ३३०० भट्टार,
६४ देवालयाः, १८० हेमजटितवाहिन्यः, ४५० जैनयाचकाः, ४००० तुरंगमा, ७००००० मनुष्याः , 16 मार्गे समकरणाय ५००० कुहाडिकाः, ५०० महिषाः, पानीयानयनाय ५०० कुदाली, एवमपरमपि
स्वयं शेयं प्रतिदिन १०० मनुष्याः जिमन्ति मन्त्रिगृहे । एवंविधेन श्रीसंघेन सह वस्तुपालमन्त्री द्वयोस्तीर्थयोर्यात्रां चकार ।
इति वस्तुपालमन्त्रियात्रासम्बन्धः ॥ ४३८ ॥
[439] अथ यात्रायाभाग्ये वस्तुपालहडालाग्रामप्राप्तिसम्बन्धः । 20 अन्यदा बहुश्रीसंघ मेलयित्वा वस्तुपालो मन्त्री श्रीशत्रुजयदेवनमनार्थ चलितो हडाला
प्रामे गतः । तदा द्वाभ्यां भ्रातृभ्यां गृहसत्कलक्ष्मीविलोकिता, लेखके लक्षत्रयं शातं । ततः प्रोक्तं मन्त्रिणा सुराष्ट्रासु [अथास्वास्थ्यं] अस्वस्थं विद्यते । तेन लक्षमेकमत्रावनौ मिप्यते । लक्षद्वयं धर्मे व्ययनाथ साथै नीयते । एवं विमृश्य यावल्लक्षस्य धनस्याधःक्षेपाय भूमि
खनयति मन्त्री. तावत्तत्र भूमौ कस्यापि धनिनः पूर्वस्थापितः वनकनकपूर्णः शौल्ककलशो 25 निर्ययौ । ततो मन्त्री अनुपमादेवी पप्रच्छ-क्वैतनिधीयते धनं ? तयोक्तं तीर्थ व्ययते
स्थाप्यते । ततो मन्त्री तद्धनं सार्थ नीत्वा शत्रुजयगिरिनारतीर्थयोख्ययत् । कृत्वा यात्रा संघ परिधाप्य गुरुश्च सोत्सवं धवलक्कके समागात् मन्त्री ।
इति यात्रायामाग्ये वस्तुपालहडालाग्रामप्राप्तिसम्बन्धः ॥४३९॥
"Aho Shrutgyanam"