________________
द्वितीयोऽधिकारः
[ २३५
15
उक्तं च गुरुभिः-मन्त्री वस्तुपालो नायाति । कुमारदेवी जगौ-भगवन् ! गृहे पादावधारयिभ्वं वन्दापनार्थ गुरवो प्राप्ता ! मन्त्री तूपरि गृहस्य तस्थौ । तदा गुरबो गृहस्योयंभूमौगताः । वस्तुपालस्तु विप्रैर्वेष्टितः सन्मुखं न पश्यति गुरोः । ततो गुरवः पश्चाद्वलिताः । कुमारदेवी जगौ-भगवन् ! त्वरितं कथं पश्चाद्वलिताः ? गुरुभिरुक्तं-अक्सरो नास्ति । कुमारदेवी प्राह--भगवन् ! क्षणं प्रतीमध्वं, मन्त्री आगमिष्यति । ततः कुमारदेवी पुत्रपार्वे गत्वाऽवग- 5 पुत्र ! गुरव आगता अपि त्वया न नताः । आत्मनः कुले ये गुरवः सन्ति ते तु मान्यन्त एव । वस्तपालो मातुवचसा विप्रान् विसज्य गुरुपाइवे समागात् । गुरवो वन्दिताः, पृष्टं च-भगवन् ! कथं पश्चात्त्वरितं वलिताः ? गुरुभिः प्रोक्तं-त्वं सुश्राद्धमन्त्रिआसराजकुलचूडामणिरसि । आत्मनः कुलाचारं मा मुञ्च | पुनः पुनरुपदेशं ददानगुरुभिरुक्तं-यो देवः पूज्यते स जिमद्भिहदनं कुर्वद्भिन विराध्यते । [आभछिट्यादिना] अयमनन्तो देवः स च जिमद्भिः 10 कथं बाध्यते इत्यादि प्रोच्य छोटापितः ? ये गृहकार्य कुर्वन्ति भार्यामङ्गोकुर्वन्ति ते तु न धर्मगुरवः किन्तु कर्मगुरवः । एवं ज्ञात्वा त्वया विशेन परीक्ष्य धर्मगुरवोऽङ्गोकार्या इति श्रत्वा गुरुपाचे वस्तुपालः सकुटुम्बः सम्यक्त्वं लात्वा जैन धर्म चक्रे ।
इति वस्तुपालकुटुम्बप्रतिबोधसम्बन्धः ॥४३६।।
[ 437 ] अथ वस्तुपालमन्त्रिसंघवात्सल्यादिनियमः । एकदा द्वौ वस्तुपाल-तेजपालौ गुरुपावें धर्म श्रोतुं गतौ । गुरुभि प्रोक्तं
धनदो धनमिच्छनां कामद; काममिच्छताम् ।
धर्म एवापवर्गस्य पारम्पर्येण साधकः ॥११॥ कोशं विकासय सदा श्रय धर्ममार्य, प्रीतिं कुरुष्व यदयं दिवसस्तवास्ति । दोषोदये निबिडराजकरप्रताप-ध्यान्ते समेष्यति पुनस्तव क; समीपम् ।।२।। 20
तदनु स्वगृहे समायातौ विमृशतः स्मेति तो गुरुभिहितोपदेशो ददे । उत्तरकालस्तु न ज्ञायते कीदृशो भविष्यति । अतोऽधुना धनं धर्मस्थाने व्यग्रते ततस्तो स्थले स्थले प्रासादान् धर्मशालाः सत्रागारान् मण्डयामासतुः । प्रतिदिनं उभयकालं प्रतिक्रान्तिमेकवारं देवार्चा प्रतिवर्ष महतीः संधाः साधर्मिकवात्सल्य त्रयं च १५०० तपोधनविहारणम् । इति वस्तुपालमन्त्रिसंघवात्सल्यादिनियमः ॥४३७।।
25 [438 ] अथ वस्तुपालमन्त्रियात्रासम्बन्धः । एकदा श्रीवस्तुपालो गुरुपार्वे श्रीशत्रुजयतीर्थयात्राफलं शुश्रावेति
पल्योपमसहस्रं तु, ध्यानाल्लक्षमभिग्रहात् । दुःकर्म क्षीयते मार्गे, सागरोपमसश्चितम् ॥१॥
"Aho Shrutgyanam"