________________
२३४ ]
प्रबन्धपञ्चशती अतिमुक्तो बालपिराराधकोऽयवाऽनाराधकोऽस्ति । श्रीवीरः प्राह-अत्रैव भवे गुणरत्नतपसा केवलीभूत्वा सेत्स्यति । ततो हृष्टाः स्थविरास्तं पालयन्ति श्लाघयन्ति च । क्रमावृद्धो भूत्वा १२ गुणरत्नतपः कृत्वा सिद्धः। तच्चेदं तपः १ उपवासपारणं-२ उपवासपारणं, एवं शतउपवासपारणं, पारणे तु आचाम्लम् । इति अतिमुक्तर्षिसम्बन्धः ।।४३५।।
[द्वितीयस्तु अतिमुक्तकः कंसचातो [कंस लघु भ्राता) श्री नेमिनाथवारके केवली बभूव । तृतीयस्तु मेघे वर्षति जलविराधनं कृत्वा गुरुणा वारितः सन् धर्मस्थानके समेत्य इर्यापथिकों प्रतिक्रामत् दगमट्टी रइति पुनः पुनः ममेमा [ भणित्वा ] शुक्लध्यानारूढः केवलज्ञानं प्राप क्रमाजिइश्व क्रमाज्निश्च ॥४३५]
[436 ] अथ वस्तुपालकुटुम्बप्रतिबोधिसम्बन्धः । 10 एकदा धवलक्कपुरे श्रीहेम भसूरयश्चतुर्मासी स्थिताः । तत्र व्याख्यायां ठक्कुरश्री
आभूमन्त्रिनन्दिनी कुमारदेवी मात्रा सहायाति । परं सा कुमारदेवी विधवा । आसराजोऽपि व्याख्यायामागतः । व्याख्यानप्रान्ते सर्वेषु साधुषु स्वस्वगृहे गतेषु गुरुं पप्रच्छ-भगवन् ! युष्माकं दृष्टिर्नी रागाऽपि कुमारदेव्यां कथं पुनः पुनर्गता? गुरवो जगुः-कुमारदेव्याः कुशौ
एकादशरत्नानि सन्ति, ४ पुत्राः सप्त पुयः सन्ति । तेषु पुत्रद्वयं लोकोत्तरं श्रुत्वेति आसराजः 16 आभूमन्त्रिसेवां करोति स्म । तत्र गृहलेखं करोति स्म । क्रमेण कुमारदेव्या सह प्रीतिर्जाता।
गुरूक्तं कथितं, ततस्तस्या मातुरपि प्रोच्य छन्नं वाहनिकायामुपवेश्य कुमारदेवी आसराजो मण्डलीनगयों गतः । तत्र वसतस्तस्य लूणिग-मल्लदेवर-वस्तुपाल३-तेजपालाबा४ चत्वारः पुत्रा बभूवुः । साकु१-माकुर-भाकु३-धनदेवी४-सोहग५-तेजुका६-वइज७ काख्याः सप्त पुत्र्योऽभूवन् । मल्लदेवलूणिगौ अल्पायुषो जातौ ।
एकदा आसराजो धवलक्कके वासं चकार । वस्तुपालस्य ललितादेवी पत्न्यभूत् । द्वितीया सोधूश्व सौषूश्च] ललितादेवीपुत्रो जयन्तसिंहस्तस्य पन्नो सूहबदे । तेजःपालस्य तु अनुपमादेवी पल्यभूत्। आसराजसुतौ व्यवसायं चक्रतुः । इतो व्याघ्रपल्लीयो राणकः आनाको भीमेन भूपेनापमानितोऽन्यत्र गतः । परिग्रहेणाऽऽकारितोऽपि नायात् । ज्ञापितं च राज्यं विनष्टं च
किमागम्यते मया ? परं पदातिमात्रः सन् ओलगां करिष्यामीत्युक्त्वा पत्तने समागात् । 25 तत्सुतो लूणसानामा भरकधरोऽस्ति तस्य वीरधवलपुत्रोऽभूत् । स च राझा भीमेन प्रधानः कृतः । राणिमा दत्ता तस्मै, राज्य चिन्तां चक्र च भीमभूपोविकलोऽभूत् ।
अथ लवणप्रासादेन राज्यमात्मायत्तं [आत्मीयं कृतं, भीमे मृते स एव लवणप्रसादो राजाऽभूत् वीरधवलस्य कुमारभक्तो धवलक्ककं दत्तं लवणप्रसादो घनं धवलक्कके बोरधव
लस्नेहेन तस्थौ । पत्तने अमात्याश्चिन्तां कुर्वन्ति यथा कमात्तस्य वस्तुपालतेजपालो मन्त्रीश्वरौ 30 जातो तथा ग्रन्थान्तराद् शेयौ । क्रमाद्वस्तुपालमन्त्री ब्राह्मणैर्वेष्टितोऽनन्तं बबन्ध हस्ते, मिथ्यात्वे पतितः।
अत्रान्तरे कुलगुरवः श्रोविजयसेनसूरयो वन्दापयितुमागतास्तत्र कुमारदेव्या नमस्कृता ।
20
"Aho Shrutgyanam"