________________
द्वितीयोऽधिकारः
[ २३९ [ 442 ] अथ वस्तुपालयात्रासम्बन्धः । अन्येधुर्वस्तुपालो ब्राह्म मुहूर्ते उत्थाय दध्यौ, यदि विस्तरेण तीर्थयात्रा क्रियते तदा वरं । यतः
वऊचयित्वा जनानेतान् , सुकृतं गृह्यते श्रिया । तत्ततो गृह्यते येन, स तु धूर्तधुरन्धरः ॥१॥ नृपव्यापारपापेभ्यः, सुकृतं स्वीकृतं न यैः ।
तान्धूलिधावकेभ्योऽपि, मन्ये मूढतरानरान् ॥२॥ एवं स्मृत्वा श्रीमलधारि श्रीनरचन्द्रसूरिपादाः पृष्ठाः--भगवन् ! या मे चिन्ताऽधुना सा निःप्रत्यूह सेत्स्यति न वा ? प्रमुभिः प्रोक्तं-या चिन्ता तव विद्यते सा सेत्स्यत्येव । वस्तुपाल: पाह-तहि देवालये वासक्षेपः क्रियतां । ततः शुभमुहूर्ते गुरुभिर्देवालये वासक्षेपः कृतः । साधर्मि- 10 कवात्सल्यं च । ततः श्रीसंघः स्थाने स्थाने मार्गे देवालये स्नात्रमहोत्सवं कुर्वाणः श्रीशजये गतः । तत्र पत्रपूजाध्वजारात्रिकमंगलदीपकादीनि प्रभोः पुरश्चक्रे । तत उतीणों वस्तुपालो गिरिनारतीर्थे गत्वा नेमि प्रणम्य मार्गे श्रीसंघं मिष्टाहारादिभिः प्रप्रीण्य परिधाप्य गुरून् प्रतिलाभयामास सूत्सवं स्वपुरमागात् ।
इति वस्तुपालयात्रासम्बन्धः ॥४४२।।
[448 ] अथ समुद्रवीक्षानिर्गतमरुस्थलीपुरुषसम्बन्धः । एकदा कोऽपि रत्नाकरोपान्तवासी पुमान् मरुस्थल्यां गतः । एकस्मिन् ग्रामे तत्रत्यालये प्राम्याः स्थूलबहुललोमशाः कम्बलपरिधाना मलक्लिन्नगात्राः अनन्तरमागतं वीक्ष्य मिथः प्रोचुः । नवीनः द्रुतगामी बक इव श्वेतवस्त्रधारी क एक एषः) कुकुतः]त्रागात् ? ततस्तैराकारितः पृष्टं च-करत्वं कुतः किमर्थमत्रागाः । तेनोक्तमहं दूरालमुद्रतटादागां । तैः पृष्टं-समुद्रः कीदृशोऽस्ति 20 पान्थः प्राह---महान् । तैः पृष्ट-केन खनितः सोऽवग-स्वयंभुवा । तैः प्रोक्तं-स कियान । सोऽवग--तस्य पारो न प्राप्यते; तैरुक्तं-तत्र किं प्राप्यते ? सोऽवग-~
ग्रावाणो मणयो हरिनलचराः लक्ष्मीः पयो मानुषी, मुक्तौषाः सिकताः प्रवाललतिकाः सेवालमन्तः सुधा ।
25 तीरे कन्पमहीरुहः किमपरं नाम्नाऽपि रत्नाकरो,
एवं पदनयं व्याख्याय सोऽप्रतो गतः । ततस्तेषु प्रामेषु एकः कौतुकी ततो निर्गतः समुद्रवीक्षार्थ । ततः क्रमाव पृच्छन् समुद्रतटं गतः दृष्टः समुद्रः, कल्लोलमालाभिः पूरितस्तेन । ततो
"Aho Shrutgyanam"