________________
२२.]
प्रबन्धपाती इति रिचार्य नागस्त्यक्तः । अतो-बहुबुद्धिः ।
बुद्धौ धूरक्षितच्छागसम्बन्धः ॥४०७॥ [408 ] अथ बहवो न विरोद्धव्या पिपीलिकासर्पसंबंधः ।
बहवो न विरोद्धव्या, दुर्जयो हि महाजनः ।
स्फुरन्तमपि नागेन्द्र, भक्षयन्ति पिपीलिकाः ॥१॥ स्वापि वनमध्ये वल्मीके कृष्णसर्पः । कदाचित्स बिलानुसारमार्गमुत्सृज्यान्येन बिलद्वारेण विषमेण निर्गच्छन्देहे ब्रणितः । अथ गच्छदागच्छता सर्पण विराधिताभिः कीटिकाभिव्रणशोणितगन्धेन ज्ञात्वा प्रणमवसरं च प्राप्य सप्र्को वृतः । कति तं घ्नन्ति । कति तास्यन्ति,
कति पालिनीवत् शरीरं सच्छिद्रं कुर्वन्ति । पश्चात्ताभिः कृतबहुव्रणः पञ्चत्वं गतः । भत्तो 10 बदबो० । इति बहवो न विरोद्धव्याः--पिपीलिका सर्पसम्बन्धः॥४०८॥
[409 ] अथ लोभोपरि० पश्चात्तापे द्विजसंबंधः । चिर्ता पश्यसि पुत्रस्य, पुच्छच्छेदं स्मराम्यहम् ।
आवयोस्तु कुतः प्रीति-नागन्तव्यं त्वया द्विज ! ॥१॥ स्थापि प्रामे द्विजस्य तस्य कृषि कुर्वतः सदैव निष्फलकालोऽतिवर्तते धान्यनिष्पत्तर16 भावात् । अथ ब्राह्मणेन क्षेत्रान्तर्वल्मीके कृष्णं सर्प दृष्ट्वाऽचिन्ति क्षेत्राधिष्ठाताऽयं सर्पः,
एतस्य शक्ति विना कथं धान्यस्य निष्पत्तिर्भवति । अथ शरावं दुग्धभृतं बल्मीके मुक्तं । प्रभाते शरावे दीनारो दृष्टः । एवं प्रत्यहं क्षीरं दत्ते दीनारमादत्ते च । अथ पुत्रं समादिश्य विप्रो प्रामं गतः । पुत्रेण क्षेत्रलोभाल्लकुटघातो मुक्तः । सर्पण दष्टश्च प्रामागवेन ब्राह्मणेन ज्ञात्वा स सर्पः प्रसादित: सर्पणोक्तं-'चितां पश्यसि०।
इति लोभोपरि पश्चात्तापे द्विजाहिसम्बन्धः ।।४०९॥ [410] अथ मिथो विवदन्तः शत्रवो विनश्यन्ति-चौररावसाविव ।
शत्रवोऽपि हिताय स्यु-विवदंतः परस्परम् ।
चौरेण जीवितं दत्तं, राक्षसेन तु गोयुगम् ॥१॥ क्वापि प्रामेऽतिदरिद्रो विप्रो वसति । तस्य [स्मै] केनापि दयया वृषभयुगलं दत्तं । तेन 25 च घृततैलयवसादिना प्रह्वीकृतं । तद्दृष्ट्वा कश्चिच्चौरो रात्रौ बन्धनपाशं गृहीत्वा हर्नु
यावदायाति तावदधमार्गे विकरालमूर्ती राक्षसो दृष्टः । ततः स्तेनेन पृष्टं-को भवानि
२०
"Aho Shrutgyanam"