________________
१८८ ]
अवन्धपञ्चशती
एषोऽपि द्विजः कथं न प्रतिबोध्यते ? ततः सूरिभिस्तत्र गत्वा शिवस्तुतिः शृङ्गाररौद्रमयो प्रारब्धा । तथाहि-
5
10
15
एकं ध्याननिमीलितं मुकुलितं चक्षुर्द्वितीयं पुनः,
पार्वत्या विपुले नितम्ब फलके शृङ्गारभारालसम् । अन्यत्क्रूरविकृष्टचापमदनक्रोधानलोद्दीपितं,
शम्भोभिरसं समाधिसमये नेत्रत्रयं पातु वः || १ || कृष्णात्प्रार्थय मेदिनीं धनपतेर्बीजं बलेर्लाङ्गलं,
प्रेतैशान्महिषो वृषश्च भवतः फालं त्रिशूलादपि । शक्ताहं तच भक्तदानकरणे स्कन्दोऽपि गोरक्षणे,
25
दग्धाऽहं तव भिक्षया कुरु कृषिं गौर्या वचः पातु वः ||२||
द्विजेनोक्तमधुनाऽनवसरे मम पुरोऽनशनगृहीतस्य रागमयी स्तुतिः कस्माद्विधीयते ? गुरुणोक्तं- "यादृशी सभा तादृशं वाच्यं, यादृशो देवस्तादृशी पूजास्तुतिरिति" भवानेवानवसरज्ञोऽनशनं लावा सरागदेवपार्श्वे उपविष्टस्ततः प्रबुद्धो जिनेन्द्रगृहं गत्वा । शान्तो वेषः शमसुख फल० १ ।
प्रशमरसनिमग्नं दृष्टियुग्मं प्रसन्नं वदनकमलमङ्कः कामिनीसङ्गशून्यः । करयुगमपि यत्ते शस्त्रसम्बन्धवन्ध्यं तदसि जगति देवो वीतरागस्त्वमेव ॥३॥
"
इत्यादि स्तुति पपाठ स द्विजः, तदनन्तरं जिनभवनोपविष्टः क्षीणायुः स्वर्गं गतः । अतः स्तुत्यार्हो जिन एवं नान्यः । इति बप्पभट्टिप्रबोधितद्विजकथा ||३३६||
[337] अथ तीर्थ भक्तितोतिकाव्ये वस्तुपालमन्त्रिदानसम्बन्धः ।
20 अन्यदा श्रीवस्तुपालः ससंघः श्रीशत्रुञ्जये देवान्नत्वाऽग्रतञ्चलन् देवकपत्तने ययौ । श्रीसंघ सदन्नपानतः सन्मान्य संघपूजायामनेके आचार्या उपविष्टाः सन्ति, गुरवः परिधापिताः । अत्रान्तरे सोमेश्वर पण्डितेनेदं काव्यमुक्तं वस्तुपालं प्रति
लक्ष्मि प्रेयसि । केयमास्यशितता बैकुण्ठ ! कुण्ठोऽसि किं ?, नो जानासि पितुर्विनाशमसमं संघोत्थितैः पांशुभिः ।
मा मै[षी ] रुगभीर एष भविनाम्भोधिविरं नन्दतात्, संघेशो ललितापतिर्जिनपतेः स्नात्राम्बुकुल्यां सृजन् ॥ १ ॥
एवं सोमेश्वरः काव्यपद्धत्यार्थमाह-- अहमद्य विष्णुसद्मनि गतस्तत्र विष्णुश्रियौ मिथः एवं
" Aho Shrutgyanam"