________________
द्वितीयोऽधिकारः
[ १८९ जल्पन्तावभूतां, प्रथमं कृष्णेन श्रीः पृष्टा, किं भवत्या मुखे कालिमा ?। श्रीः प्राह-हे वैकुण्ठ ! कुण्ठोऽसि मूर्योऽसि न वेत्सि मम पितुर्विनाशो भविष्यति संघस्य वस्तुपालस्य रजोभिः । ततो विष्णुः प्राह--"मा भैरित्यादि०" । ततो वस्तुपालेन तस्य लक्षद्रव्यं दत्तम् । इति तीर्थभक्तिश्रुतोक्तिकाव्ये वस्तुपालमन्त्रिदानसम्बन्धः ॥३३७||
[338] अथ यात्रायामामप्रबन्धः । गोपालनगराच्छीशत्रुञ्जयमाहात्म्यं बप्पभट्रिगुरुमुखात् श्रत्वा बहुसंघसमेतः आमराजः तीर्थनति यावत् त्यक्ताहारश्चलितः । मार्ग स्थाने स्थाने उत्सवं कुर्वन् गूर्जरायामागात् । शरीरं क्लाम्यति स्म भूपस्य । मन्त्रिणो वदन्ति-- पारणं क्रियतां, गुर्वादिभिबहूक्तोऽपि पारणं न करोति । राज्ञः साहसं दृष्टा शासनदेवता राज्ञौ राज्ञः मन्त्रिणां सर्वसंघस्य परः प्रकट प्राह-भूमिलामविभूषणायां..."पुरि जीणां श्रीयुगादिप्रतिमा परिसरभूमिमध्यस्थां कथयामास । 10 अथवा श्रीशत्रुञ्जयादानीतेति प्रघोषः । ततः प्रातर्दवीवचनात्प्रतिमां भूमध्यात्कर्षयामास । शत्रुअयस्य स्थापना कृता । तां प्रतिमा नत्वा राजा पारणं चकार । ततो राजा तत्र स्थाने महा प्रासादः कारितः । प्रतिमां तस्य प्रासादस्य मध्ये स्थापयामास समहोत्सवं । ततो लोकैरपि पूजाहतः कृता । ततः प्रभृति लघुश्रीत्रुञ्जयेति नाम शिखरं..." जातं । ततो प्राज्यशत्रुञ्जये रैवते च देवान्नत्वा स्वपुरमगात् । इति यात्रायामामग्रबन्धः ॥३३८॥
15 [339] अथ श्रीशत्रुञ्जयप्रासादबिम्बसंघपतिभवनादिसम्बन्धः । युगादौ श्रीशत्रुञ्जये प्रथमचक्रिणा श्रीभरतेश्वरेण स्वर्णमयं श्रीजिनभवनं कारितं । तत्र भवने मणिमयं बिम्बं स्थापितं । तस्मिन्समये कोडि ८९ लक्ष ८४ सहस्राः किश्चिदधिकाः एते प्रौढछत्रधरा राजानः संघपतयोऽभूवन् । तत्र येऽन्तरान्तरा उद्धारा आदित्यक्षितिपादिभिः कारितास्तेषां संख्या केवली वेत्ति । - तदनन्तरं ५० कोडिलक्षसागरोपमान्तरे द्वितीयः सगरश्चक्री संजातः । तेन श्रीशत्रुञ्जये द्वितीयो उद्धारः कारितः। ताम्रमथं जिनभवनं रत्नमयं विम्बं । कारितं तस्मिन् समये ७ कोडि ९५ लझ ७५ सहस्रा एते प्रोढछत्रधरा राजेन्द्राः संघपतयोऽभूवन् ।
तदनन्तरं ५० कोडिलक्षसागर ८६७५० न्यूनान्तरे पाण्डवस्तृतीयः उद्धारः, काष्ठमयप्रासादे लेपमयं बिम्बं स्थापितं तस्मिन्समये । २५ कोडि ६५ लक्ष ७५ सहस्रा एते भूपाः संधाधिपत- 25 योऽभूवन् । ८६७२० पाण्डव श्रीमहावीरान्तरं जातं । तदनन्तरं वीरविक्रमादित्यान्तरे ८४ सहस्रा नरेन्द्राः शतानीक-श्रेणिक-दधिवाहनप्रमुखाः संघपतयोऽभूवन् । एकशताष्टोत्तरे वर्षे श्रे० जावडेन बिम्बोद्धारः कारितः । पञ्च प्रासादोद्धारः श्रीमाली बाहडदेवेन कारितः १२१३ । अस्मिन्समये संवत् १३७१ सा० समरनरेन्द्रेण ६ श्रीयुगादिजीर्णोद्धारः कारितः । श्रे० जावडसमरनरेन्द्रान्तरे संप्रतिसंघपतिसंख्या श्रूयतां ३ लक्ष ८४ सहस्राः प्रौढाः श्राद्धाः संघपतयोऽभूवन् । ७७ सहस्रा 3) मीणाकाराः संघपतयः, जैनक्षत्रियाः १६ सहस्राः सघपतयः, जैनविप्राः १५ सहस्राः संघपतयः,
"Aho Shrutgyanam"